पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ ( वा० ३।३।५८ ) - इति मुकुटः | तन्न । परिगणनातूं ॥ (१) ॥*॥ स्थली अकृत्रिमा | ‘जानपद -' (४|१९४२) इति ङीष् । कृत्रिमा स्थला | स्थलं तूभयसाधारणम् ॥ (२) ॥ * ॥ द्वे 'स्थलस्य' ॥ समानौ मरुधन्वानौ अमरकोषः । समानाविति ॥ म्रियन्तेऽस्मिन्भूतानि । 'भृमृशी - ' ( उ० लोक इति ॥ अयं जम्बूद्वीपनवमांशः । भरतस्य राज्ञ १।७ ) इत्युः । ‘मरुर्ना गिरिधन्वनोः' ॥ (१) ॥*॥ धन्व्यतेऽ- | इदम् । 'तस्येदम्' (४|३|१२० ) इत्यण् । 'महर्षि व्यासरचिते स्मात् । —धविर्गत्यर्थः सौत्रः इति मुकुटः | तन्न । ( धातुपाठे ( भ्वा० प० से ० ) दर्शनात् । 'कनिन् युवृषि - ' (उ० १९१५६) इति कनिन् । ‘धन्वा तु मरुदेशे ना क्लीबं चापे स्थलेऽपि च' ॥ (२) ॥ * ॥ द्वे 'निर्जलदेशस्य' || जम्बूद्वीपे च भारतम्' इति रभसः ॥ (१) ॥ ॥ वृष्यते 'वृषु सेचने' (भ्वा०प० से० ) । 'भयादीनामुपसंख्यानम्' (वा० ३१३१५६ ) इत्यच् । 'पुंनपुंसक योर्वर्षं जम्बूद्वीपाब्दवृष्टिषु इति रुद्रः । 'वर्षं स्थानं विदुः प्राज्ञा इमं लोकं च भारतम्' इति भारविः । 'उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्ष तद्भारतं नाम भारती यत्र संततिः' । 'वर्षोऽस्त्री भारतादौ च जम्बूद्वीपाब्दवृष्टिषु ॥ एकम् 'भारतवर्षस्य' ॥ शरावत्यास्तु योऽवधेः ॥ ६ ॥ द्वे खिलाप्रहते समे ॥ ५ ॥ त्रिषु द्वे इति ॥ खिलति । 'खिल उच्छे' ( तु० प० से ० ) | 'इगुपध-' (३।१।१३५) इति कः । खिल्यते वास्मिन् । 'हलव' (३|३|१२१) इति घञ् | संज्ञापूर्वकत्वान गुणः । ( 'खिलमप्रहते क्लीबं सारसंक्षिप्तवेधैसोः' ) ॥ ( १) ॥*॥ म प्रहन्यते स्म । ‘हृन हिंसागयोः' (अ० प० अ० ) । कर्मणि क्तः (३।२।१०२ ) ॥ ( २ ) ॥ ॥ समे समानार्थे । द्वे 'हलाद्यकृष्टस्य' । (त्रिषु लिङ्गये । स्त्रियां खिला अप्रहता ) ॥ ॥ [ द्वितीयं काण्डम् वृत्तिद्भिरनुक्तेः । गत्यर्थानां कौटिल्य एव यविधानाच | 'जगत् स्याद्विष्टपे क्लीबं, वायौ ना, जङ्गमे त्रिषु' ॥ (५) ॥ ॥ 'एकं महाभूतं पृथ्वी, पञ्चमहाभूतेन्द्रियविषयात्मकं तु जगत्' इति पृथ्वीजगतोर्भेदः ॥ पञ्च 'भूतलस्य' || लोकोऽयं भारतं वर्षम् अथो जगती लोको विष्टपं भुवनं जगत् । अथविति ॥ गच्छति । ‘गम्ऌ गतौ' (भ्वा०प० उ० ) । 'पृषद्बृहन्महजगत् -' ( उ० २१८४ ) इति निपातितः । शतृ- घद्भावात् 'उगितश्च' (४०१६) इति । 'जगती भुवने क्षमायां छन्दोमेदे जनेऽपि च ॥ (१) ॥ ॥ लो- क्यते । ‘लोकॄ दर्शने’ (भ्वा० आ० से ० ) । घञ् ( ३ १३१४) । 'लोको विश्व जने' इति हैमः ॥ ( २ ) ॥ * ॥ विशन्त्यत्र | ‘विश प्रवेशने’ (तु॰ प० अ० ) । 'विटपविष्टपविशिपोलपाः' (उ० ३।१४५ ) ॥॥ पादिपाठे तु - पिष्यते पिश्यते, वात्र | 'पिश गतौ' ( ) । 'पिष्ऌ संचूर्णने' ( रु० उ० अ० ) वा । ( 'भुवनं ) पिष्टपः पुमान्' इति बोपालितः ॥ (३) ॥ भवन्त्य - स्मिन् । ‘रजेः क्युन्’ (२१७९) 'भूसूधूभ्रस्जिभ्यः' ( उ० २। ८० ) इति क्युन् । ( 'भुवनं विष्टपेऽपि स्यात्सलिले गगने जले' ) ॥ (४) ॥ ॥ यत्तु - जङ्गम्यते इति स्वामिना विगृ- हीतम् | यच – पुनः पुनर्वृद्धिक्षयो गच्छति इति मुकुटेन । तन । 'वर्तमाने बृहत् - ' ( उ० २१८४ ) इति सूत्रे यडर्थस्य १ - अत्र 'धन्यपि संशापूर्वकत्वावृद्धयभावाच्च' इत्यधिकः पाठः || २—वेधसि विष्णौ यथा हरिवंशस्य 'खिलस्य विष्णोरिषवो गुणा यत्र' इति व्युत्पत्त्यां 'खिलेषु' इति संज्ञा ॥ ३ - इतः पूर्वम् जगत्स्यादिति लिखितमासीत् । तदत्रैव जगच्छन्दव्याख्याने लिखितम् || देशः प्राग्दक्षिणः प्राच्यः शरेति ॥ शरावत्या नद्या मर्यादायाः | प्राचा सहितो दक्षिणो देशः । प्राच्यां भवः । 'युप्रागपाग्–’ (४।२॥१०१) इति यत् ॥ (१) ॥ ॥ एकम् 'प्राध्यदेशस्य' ॥ उदीच्यः पश्चिमोत्तरः । उदीच्य इति ॥ तत एवावधेः । पश्चिमेन सहित उत्तरी देशः । उदीच्यां भवः । 'द्युप्राग्–' (४।२।१०१) इति यत् ॥ (१) ॥ ॥ एकम् 'उदीच्यदेशस्य || प्रत्यन्तो म्लेच्छदेशः स्यात् प्रत्यन्त इति ॥ प्रतिगतोऽन्तम् । 'अत्यादयः कान्ता- द्यर्थे -' (वा० २।२।१८) इति समासः ॥ (१) ॥*॥ म्लेच्छानां देशः ॥ (२) ॥ * ॥ 'चातुर्वर्ण्यव्यवस्थानं यस्मिन्देशे न विद्यते । तं म्लेच्छविषयं प्राहुरार्यावर्तमतः परम् ॥ द्वे 'शिष्टाचार- रहितखशादिदेशस्य' ॥ मध्यदेशस्तु मध्यमः ॥७॥ मध्येति ॥ मध्यञ्चासौ देशश्च ॥ ( १ ) ॥ ॥ मध्ये भवः १ – मुकुटे तु एतद - अत एव सामान्य विशेषभावाज्जम्बू- द्वीपे तदेकदेशे च भारतप्रयोगः | प्रकरणादिभिस्तु तदवगमः । यथा 'एष दूरगुरुभारभारतं वर्षमद्य मम वर्तते वशे' इति माधः । च । अन्यान्यपि तथा 'एतेन भारतमिलावृतवद्विभाति' इति वर्षाणि । यथा 'स्याद्भारतं किंपुरुषं हरिवर्षे च दक्षिणाः । रम्यं हिरण्मयकुरू सुमेरोरुत्तरास्त्रयः । भद्राश्व-केतुमालौ तु द्वौ वर्षों पूर्वपश्चिमौ । इलावृतं तु मध्यस्थं सुमेरुर्यत्र तिष्ठति' इति वाच स्पतिः - इत्यप्युक्तम् ॥ २ – यदाह 'प्रागुदञ्चौ विभजते हंसः क्षीरो, दकं यथा । विदुषां शब्दसिध्यर्थ सा नः पातु शरावती' - इति क्षीरस्वामी ॥