पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्ग: १० ] किसलयकसरसभाः' इति सभेदात् ) ॥ ॥ के शीर्यते | ' हिंसायाम्' ( क्र्या॰ प० से० ) । 'ऋदोरप्’ ( ३।३।५७ ) । तौलव्यशः । 'केसरं हिङ्गुनि क्लीवं, किंजल्के न स्त्रियां, पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' ॥ ( २ ) ॥ ॥ द्वे 'पद्मकेसरस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । संवर्तिका नवदलम् समिति॥ संवर्तते । ‘वृतु वर्तने' (भ्वा० आ० से० ) । ‘हृपिशिरुहिवृतिविदिच्छदि की तिंभ्यश्च ( उ० ४।११९ ) इतीन् । ‘संवर्तिर्नवपत्रिका’ इति वोपालितः ततः स्वार्थे कन् (५) ३।७५ ) ॥ (१) ॥ ॥ नवं च तद्दलं च ॥ (२) ॥ ॥ द्वे 'पद्मादीनां नवपत्रस्य' || वीजकोषो वराटकः ॥ ४३ ॥ । वीजेति ॥ वीजस्य कोषः पात्रमाधारः । तालव्यान्तोऽपि ॥ ( १ ) ॥ ॥ व्रियते दलैः । ‘‘बृञ् आवरणे’ ( 'अन्येभ्योऽपि' ( ) इत्याटच् । ततः स्वार्थे कन् ( ५ ॥ ३।७५ ) । यद्वा - वरं दलवरणम् अटति । 'अट गतौ' ( भ्वा० प० से ० ) । 'कर्मण्यण्' ( ३|२|१ ) ततः खार्थे कन् १-'आन्दोलकुसुमकेशरशरेणमुखी' इति वासवदत्तायां तालव्यम- ध्यदर्शनात् ॥ इति मुकुटः ॥ १०९ ( ५१३१७५ ) | 'वराटकः पद्मश्रीजकोशे रज्जौ कपर्दके' ॥ (२) ॥ ॥ द्वे 'पद्मवीजस्य' | इति वारिवर्गविवरणम् ॥ उक्तान्वर्गान् संगृह्णाति-- उक्तं स्वर्व्योमदिक्कालधीशब्दादिसनाट्यकम् । पातालभोगिनरकं वारि चैषां च संगतम् ॥ ४४ ॥ इत्यमर सिंहकृतौ नामलिङ्गानुशासने । स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ ४५ ॥ उक्तमिति ॥ अत्रैकादश वर्गांः ॥ इति श्रीवघेलवंशोद्भवश्री महीधरविषयाधिपश्री कीर्तिसिंह देवाज्ञया श्रीभट्टोजिदीक्षितात्मजश्रीभानुजी दीक्षितविर चितायाममरटीकायां व्याख्यासुधायां प्रथमकाण्डः संपूर्ण- तामगात् । वः - अस्मिन्काण्डे द्वावेव मुख्यवर्गौ स्वर्गः पातालश्च । तत्र नाट्य- १ - आदिशब्देन पातालस्य ग्रहणम् इति मुकुटः ॥ अत्रायं भा- वर्गपर्यन्तं स्वर्गसाधारणपदार्थानां निरूपणात्स्वर्गवर्गत्वम् । तदुत्तरं पाता- लसंगतार्थनिरूपणात्पातालवर्गत्वम् ॥ अतरवाशिपुराणे प्रथमकाण्डे एतानेव पदार्थानुक्त्वा उपसंहृतम् 'स्वर्गपातालवर्गाथा उक्ताः' इति ॥ तत्राद्यशब्देनावान्तरवर्गग्रहणम् इत्यपि मुकुटे व्यक्तम् ॥