पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ॥ च तद्रसं च । 'तीमरसं पद्मे ताम्रकाञ्चनयोरपि’ ॥ (१०) ॥*॥ | 'तमिविशिबिडिमृणि- ' ( उ० सरसि भवम् । 'तत्र भवः' (४१३१५३) इत्यण् । 'सारसं सरसीरहे ।' 'सारसः पुष्कराख्येन्द्रोः' इति हैमः ॥ (११) || || सैरस्यां रोहति' | 'इगुपथ-' (३|१|१३६) इति कः ॥ ( १२ ) ॥ * ॥ बिसस्य प्रसूनम् ॥ (१३) ॥ ॥ केसरस्य राज्य- स्यास्ति । 'अन्येभ्योऽपि दृश्यते' (वा० ५/२/१०९) इति डः । 'राजीवं नलिने, ना तु भेदे हरिणमीनयोः ॥ (१४) ॥ ॥ पुष्णाति । 'पुष पुष्टौ' (दि० प० अ०) 'पुष: कित्' ( उ० ४१४) इति करन् । 'पुष्करं द्वीपतीर्थाहिखगरागौषधान्तरे । तूर्यास्येऽसिफले काण्डे झुण्डाग्रे खे जलेऽम्बुजे' इति हैमः ॥ (१५) ॥॥ अम्भसिं रोहति ॥ (१६) ॥ ॥ षोडश 'पद्मसामान्यस्य' ॥ पुण्डरीकं सिताम्भोजम् पुण्डेति ॥ पुण्डति । 'मडि भूषायाम्' । 'पुडिच' ( भ्वा० प० से ० ) । 'कर्करीकादयश्च' ( उ० ४।२०) इय- रीकन् । 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे । पुंसि व्याघ्रेऽग्निदिग्वर्गे कोषकारान्तरेऽपि च ॥ (१) ॥ ॥ सितं शुक्लं च तदम्भोजं च ॥ ( २ ) ॥ ॥ द्वे 'शुभ्रकम- लस्य' | अथ रक्तसरोरुहे ॥ ४१ ॥ रक्तोत्पलं कोकनदम् अथेति ॥ रक्तं च तत्सरोरुहं च ॥ ( १ ) ॥ ॥ रक्तं च तदुत्पलं च ॥ (२) | | कोकांश्चक्रवाकान् नदति । ‘णद अव्यक्ते शब्दे' (भ्वा० प० से० ) । अन्तर्भावित- व्यर्थः | मूलविभुजादिः (वा० ३१२१५) । 'अथ कोकनदं रक्तकुमुदे रक्तपङ्कजे' इति मेदिनी ॥ ( ३ ) ॥॥ त्रीणि 'रक्तकमलस्य' ॥ नाला नालम् नालेति ॥ नलति | ‘णल बन्धे' (भ्वा०प० से ० ) । ‘ज्वलिति–’ (३।१।१०९) इति णः । 'नालं ने ना पद्म- दण्डे नाली शाककलम्बके’ ॥ (१ ) ॥ ॥ (२) ॥ ॥ द्वे 'उत्पलादिदण्डस्य' ॥ अथास्त्रियाम् । [ प्रथमं काण्डम् ११११८ ) इति कालन् । अपचयविवक्षायां गौरादित्वात् (४|११४१)ङीषि ‘मृणाली' इत्यपि | 'मृणालं नलदे क्लीबं, पुंनपुंसकयोर्विसे ।' इति मे- दिनी ॥ (१) ॥ * ॥ विस्यति । 'विस प्रेरणे' (दि० प० से ० ) । 'इगुपध-' (३|१|१३६) इति कः । 'मृणाले तु विसं विशम्' इति द्विरूपकोशः ॥ ( ४ ) ॥ ॥ 'अजादीनां मूलस्य ॥ मृणालं बिसम् अथेति ॥ मृण्यते । ‘मृण हिंसायाम् ' ( तु०प० से ० ) १-~~-'दुर्जन इव सतामरसः' इति वासवदत्तायां वसन्तवर्णनम् इति मुकुटः॥ २~~-इन्दौ चन्द्रे यथा 'सिञ्जतीव सुधासारैः सारसः सारसैः करैः' इत्यनेकार्थकैरवाकर कौमुदी ॥ ३ –सरसि रोइति । 'तत्पुरुषे कृति ' (६।३।१४) इत्यलुकि हस्वेकारोऽपि । तथा च भारविः । 'अयमच्युतस्य वचनैः सरसीरुहजन्मनः' इति इति मुकुटः ॥ ४ - काश्चिद्राक्षस प्रमदा इव रक्तोत्पलाकृष्टिव्यसनिन्यः' इति दमयन्ती श्लेषः ॥ ५- नाला इत्यपि दृश्यते ॥ अनादिकदम्बे षण्डमस्त्रियाम् ॥ ४२ ॥ अजेति ॥ सनोति । 'षणु दाने' ( तु० उ० से ० ) | ‘ञ- मन्ताङ्कः ( उ० १११।१४) बाहुलकात्सत्वाभावः । ‘षण्डः स्मृतो बैलीवर्दे भवेत् पण्डं तु कानने' इति मूर्धन्यादावजयः । 'षण्डं पद्मादिसंघाते न स्त्री स्याद् गोपतौ पुमान्' 'शडि रुजायां संघाते च ' ( भ्वा० आं० से ० ) घञ् (३|३|१८) 'तालव्यो मूर्धन्योऽन्जादिकदम्बे शण्डशब्दोऽयम् । मूर्धन्य एव वृषभे पूर्वाचार्यैर्विनिर्दिष्टः' इत्यूष्मविवेकः । 'मकुरमुकुरौ दर्पणे, षण्डः समूहे, दारदोऽम्बुधौ' इति सारस्वतकोशः ॥ (१) ॥ ॥ एकम् 'अजादीनां समूहस्य' ॥ करहाटः शिफाकन्दः करेति ॥ करं हाटयति । 'हट दीप्तौ ' ( भ्वा० प० से ० ) ण्यन्तः। ‘कर्मण्यण्’ (३।२।१ ) । (यत्तु) - कंजलं रहति त्यजति । करहं पद्मम् । ततो हटति बहिर्गच्छति - इति मुकुटः । तन्न । 'करहहाटः' इति प्रसङ्गात् । ( अटतीति विग्रहेऽपि) बृद्धिप्रस- झाच्च । 'करहाट: पद्मकन्दे देशद्रुमविशेषयोः' इति हैमः ॥ (१) ॥ ॥ शिफा मूलतरप्ररोहः तत्सहितः कन्दो मूलम् ॥॥ ' शिफा' इति 'कन्दम्' इति च पृथक् नामनी इत्यन्ये ॥ (२) ॥ ॥ द्वे 'पद्मकन्दस्य' ॥ किंजल्कः केसरोऽस्त्रियाम् । किंजल्क इति ॥ किंचिज्जलति । 'जल अपवारणे' (चु० प० से ०) । बाहुलकारकः ॥ (१) ॥*॥ के जले सरति । 'सृ गतौ' (भ्वा०प० से ० ) पचाद्यच् (३|१|१३४ ) | 'हलदन्तात् -' (६|३|१) इत्यलुक् | दन्त्यसः । ( सवितृ- १ -तथा च 'सान्द्रं चन्दनमङ्गले वलयिता पाणौ मृणालीलता' इति राजशेखरः - इति मुकुटः ॥ २ क्वचिन्मेदिनीपुस्तके तु 'स्त्रीन' विसं दन्त्यान्तम् । तथाच 'हंसपङ्किरिव विसंवादिनी' इति वासवदत्ता पुंसकयोः' इत्युपलभ्यते । एवं चोक्तराजशेखरोक्तिरप्यनुकूलैव ॥ ३- इति मुकुटः ॥ 'मुनय इव विसाधारा जलपक्षिणः' इति दमयन्ती ॥ ४-बलीवर्द उत्सृष्टवृषः । तत्र यथा 'चौरैरपहृते षण्डे पृष्ठतः कोऽनु- धावति' । कानने यथा 'कुमुदकमलषण्डे तुल्यरूपामवस्थाम्' इत्यनेकार्थ कैरवाकर कौमुदी ॥ ५ – वृद्ध्यप्रसङ्गात् ॥ चौरादिकस्यादन्तस्य रहधातोर्वृज्यप्रसङ्गे ततोऽटतीति विग्रहे तु न काप्यनुपपत्तिः || ६- 'पुष्पं' इति पाठः ॥ ७-अतएव 'करहाट: शिफा च स्यात् कन्दे सलिलजन्मनाम्' इति हैमनाममालायामुक्तम् ॥ . ·