सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ अमरकोषः । वाणी-स्त्रीरत्नवाग्देवी-गो-नदीषु नदीभिदि । मनुपत्म्यामपि ॥ ) ॥*॥ कस्य जलस्य वेरं शरीरम् । तस्येयम् । ईंषद्वेरमस्या वा । ‘कावेरी स्यात्सरिद्भेदे पण्यनारीहरिद्रयोः' ॥ (१) ॥ * ॥ ( नदीविशेषाणां पृथक्पृथक् ) | ( १ सरितोऽन्याश्च सरित इति ॥ अन्याः कौशिकी- गण्डकी- चर्मण्वती- गोदावर्यादयः ॥ संभेदः सिन्धुसंगमः । समिति ॥ संभिद्यन्ते मिलन्त्यत्र | 'मिदिर् विदारणे' (रु० उ० अ० ) । 'हलच' ( ३ | ३ | १२१ ) इति घञ् । 'संभेद: स्फुटने सङ्गे’ ॥ (१) | | सिन्ध्वोः संगमः ॥ ॥ एकं 'नद्यादि संगमस्य' || इयोः प्रणाली पयसः पदव्याम् द्वयोरिति ॥ नल्यते | ‘णल बन्धने' (भ्वा०प० से ० ) । कर्मणि घञ् ( ३।३।१९ ) । 'उपसर्गात् -' (८४१४ ) इति णत्वम् । गौरादिङीष् (४।१॥४१ ) ॥ (१) ॥ * ॥ 'कृत्रिमज- लनिःसरणमार्गस्य एकम् ॥ त्रिषु तूत्तरौ ॥ ३५ ॥ देविकायां सरखां च भवे दाविकसारवौ । त्रिष्विति ॥ दीव्यति । 'दिवु क्रीडादौ ' ( दि०प० से ० ) । ण्वुल् ( ३।१।१३३ ) । देविकायां नद्याम् । सरति । 'सर्तेरयुः ( उ० ३१२२ ) | 'अयुः' इत्येके । सरय्वां च भवे । 'तत्र भवः' ( ४॥३॥५३ ) इत्यण् । 'देविकाशिंशपा-' (७७३।१ ) इ- त्यचामादेरास्वम् । 'दाण्डिनायन-' (६|४|१७४) इति लोपः । स्त्रियां ‘टिट्ठा-’ (४।१।१५) इति ङीप् ॥ ( १ ) ॥ ॥ 'देवि- कासरयूद्भवयोः' क्रमेणैकैकम् ॥ सौगन्धिकं तु कहारम् सौगन्धिकमिति ॥ सुगन्ध्येव | स्वार्थे 'विनयादिभ्य- `ष्ठक्’ ( ५।४।३४) । शोभनो गन्धः प्रयोजनमस्य । 'प्रयोजनम्' (५1१1१०९ ) इति ठक्, इति वा । 'सौगन्धिकं तु कहारे पद्मरागे चकत्तृणे । (पुंलिङ्गो गन्धपाषाणे सुगन्धव्यवहा- रिणि’ ) ॥ ( १ ) ॥*॥ कस्य जलस्य हार इव । के ह्रादते वा । अच् (३।१।१३४) । वृषोदरादिः ( ६।३।१०९ ) ॥ (२ ) ॥ * ॥ द्वे 'शुक्लकारस्य' । 'मुण्डी' इति ख्यातस्य इत्यन्ये ॥ [ प्रथमं काण्डम् से० ) मूलविभुजादिः (वा० ३।२।५ ) इति वा ॥ ( २ ) ॥ * ॥ द्वे 'रक्तकह्लारस्य' द्वे रक्तवर्ण त्रिकालविकासितपुष्पस्य वा ॥ स्यादुत्पलं कुंवलयम् हल्लकं रक्तसंध्यकम् ॥ ३६॥ हल्लकमिति ॥ हल्छति । 'हल्ल विकसने' ( ) । ण्वुल् (३|१|१३३) । यद्वा हलनम् | संपदादिः (वा० ३|३|१०८ ) | | हलं लाति 'ला दाने' ( अ० प० अ० ) । 'आतोऽनुप - ' ( ३ || २।३। ) इति कः । ‘संज्ञायां कन्' (५॥३॥७५ ) ॥ (१) ॥ ॥ रक्त संध्येव । इवार्थे कन् (५|३|९६) 'केऽणः' (७॥ ४ ॥१३) । रकान् संधीन् अकति । 'अक कुटिलायां गतौ' ( भ्वा०प० | स्यादिति ॥ उपलति । 'पल गतौ' ( भ्वा० प० से ० ) । पचाद्यच् (३।१।१३४) ॥ (१) ॥ * ॥ कोर्वलयमित्र । शोभा- करत्वात् । 'कुवलं तूत्पलं कुवम्' इति त्रिकाण्डशेषः । तत्र को वलते । ‘वल संवरणे' (भ्वा० आ० से ०) । पचायच् (३।१॥१३)। ( 'कुवलं चोत्पले मुक्ताफलेऽपि बदरीफले' ) ॥*॥ 'अन्ये- भ्योऽपि - ( वा० ३।२।१०१) इति डे कुवम् । यद्वा कुवते । 'कूङ् शब्दे' ( तु०आ० से ० ) कुटादिः । पचाद्यचि (३।१।१३४) उवङ् (६४१७७ ) ॥ ( २ ) ॥ * ॥ द्वे 'कमलकुमुदादीनां' सौमा- न्येन । अत एव 'इन्दीवरे मांसशून्ये उत्पलं कुटभूरुहे' इति रभसः, 'श्यामं शितिकण्ठनीलं कुवलयमिन्दीवरं च नीलाब्जम्' इति नाममाला च ॥ अथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन् अथेति ॥ नीलं च तदम्बुजन्म च ॥ (१) ॥ ॥ इन्दति । 'इदि परमैश्वर्ये' (भ्वा०प० से ) | इन् ( उ० ४|११८ ) | 'कृदिकारात्-' (ग० ४११४५) इति ङीष् । इन्दी लक्ष्मीः । तस्या वरमिष्टम् । 'इन्दीवरं कुवलये शतावर्या च योषिति' ॥ ॥ 'कुवलयं स्यादिन्दीवारमित्यपि ' इति व्याडेरिन्दीवार- मपि ॥ ( २ ) ॥ * ॥ द्वे 'नीलोत्पलस्य' ॥ C सिते कुमुदकैरवे ॥ ३७॥ सिते इति ॥ कौ मोदते । 'मुद हर्षे' (भ्वा० आ० से ० ) । मूलविभुजादिः (वा० ३।२।५ ) | 'इगुपध-' (३।१।१३६ ) इति वा । 'कुमुदं कैरवे रक्तपद्मे, स्त्री कुम्भिकोषधौ । गम्भार्या, पुंसि दिङ्नागे नागशाखामृगान्तरे' ॥॥ ( किपि ( ३/२/१७८ ) कुमुद् । 'कुमुद् त्रिषु स्यात्कृपणे कैरवे तु नपुंसकम्' इति मेदिनी ) ॥ ( १ ) ॥ ॥ के जले रौति । 'रु शब्दे' ( अ०प०अ० ) | पचायच् ( ३ | १ | १३४ ) तत्पुरुष कृति - ' (६।३।१४) इत्यलुक् | केरवस्य हंसस्येदं प्रियम् । 'कै- वं चन्द्रकान्तं गर्दभं कुमुदं कुमुदे' इति माधवः । ('कै रवं कितवे रिपौ । नपुंसकं च कुमुदे, चन्द्रिकायां तु कैरवी ) । 'चन्द्रकान्तं तु कैरवे | चन्द्रकान्तो रत्नभेदे ॥ ( २ ) ॥*॥ द्वे 'शुक्लोत्पलस्य' || १ - कुवलयं चन्द्रविकासि, पद्मं तु सूर्यविकासि, इत्यनयोर्भेदः । 'इन्दोरस्य च मण्डलं कुवलयालंकारकारि ध्रुवम्' इति लक्ष्यसंवादोऽपि इति बुधमनोहरौ । २ - नन्वेवं कथमुत्पलमित्युक्ते नीलोत्पलादि- धान्यायें ‘धान्यम्' इत्युक्ते कलमादिष्वेव बुद्धिर्भवति, न मुद्गादौ, एव- ब्वेष बुद्धिर्जायते, न पद्मादौ इति चेत् ॥ उच्यते । यथा सामान्येऽपि मिहाप्यदोष इति सर्वधरादयः इति मुकुटः ॥ ३–'गन्धकान्तम्'- इति लिखितम् ॥