पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्ग: १० ] कालिन्दी सूर्यतनया यमुना शमनस्वसा । कालिन्दीति ॥ कलिन्दस्येयम् । 'तस्येदम्' (४|३| १२० ) इत्यण् ॥ ( १ ) ॥॥ सूर्यस्य तनया ॥ (२) ॥* ॥ य च्छति । ‘यम उपरमे' (भ्वा०प०अ० ) । 'अर्जियमिशीङ् भ्यश्च' ( उ० ३।६१ ) इत्युनन् ॥ ( ३ ) ॥ ॥ शमनस्य वसा ॥ ( ४ ) ॥ ॥ चत्वारि 'यमुनायाः' ॥ रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३२ ॥ व्याख्यासुधाख्यव्याख्यासमेतः । रेवेति ॥ रेवते । 'रेवृ लवगतौ' ( भ्वा० आ० से ० ) । पचाद्यच् (३।१।१३४) ॥ ( १ ) ॥ * ॥ नर्म ददाति यति वा । 'डदाञ् दाने' ( जु० उ० अ० ) । 'दो अवखण्डने' ( दि० प० से ० ) वा । 'आतोऽनुप ' ( ३ २ ३ ) इति कः ॥ 'नर्मदः केलिसचिवे नर्मदा सरिदन्तरे' इति विश्वमेदिन्यौ || (२) ॥ * ॥ सोमात्सोमवंशजात् पुरूरवस उद्भवति । तेनावतारि- तत्वात् । यद्वा सोमोऽमृतमुद्भवत्यस्याः । स्वर्गप्रदत्वात् ।। अप् ( ३।३।५७ ) । सोमाद्रुद्राद्भवति । पचाद्यच् ( ३।१।१३४ ) ॥ ( ३ ) ॥ * ॥ मेकैलस्य ऋषेरदेव कन्यका ॥ ( ४ ) ॥॥ च- वारि 'नर्मदायाः' ॥ करतोया सदानीरा करेति ॥ करस्य तोयम् । तदत्रास्ति | अर्शआद्यच् (५) २।१२७)। गौरीविवाहे शंकरहस्तच्युतम् ॥ ( १ ) ॥ ॥ सदा नीरं यस्याः । 'प्रथमं कर्कटे देवीं व्यहं गङ्गा रजस्वला । सर्वा रक्तवहा नद्यः करतोयाम्बुवांहिनी' इति स्मृतेः ॥ ( २ ) ॥ * ॥ द्वे 'गौरीविवाहे कन्यादानोदकाज्जातनद्याः ॥ बाहुदा सैतावाहिनी | बाहुदेति ॥ बाहुं छिन्नं दत्तवती लिखितस्य ऋषेः । 'डु दाञ्' ( जु० उ० अ० ) । 'आतोऽनुप - ' ( ३ | २|३ ) इति कः । यद्वा बहुदस्य कार्तवीर्यस्येयम् । तेनावतारितत्वात् । 'तस्ये- दम्' ( ४ | ३ | १२० ) इत्यण् | अजादित्वात् (४|१४ ) टाप् ॥ (१) ॥ ॥ सितानि बाँहनानि यस्यार्जुनस्य | तस्येयम् । यद्वा सितस्यार्जुनस्येयम् । सैती चासौ वाहिनी नदी च ॥ ( २ ) ॥ * ॥ द्वे 'कार्तवीर्यावतारितनद्याः' ॥ शतद्रुस्तु शुतुद्रिः स्याद् शतेति ॥ शतधा द्रवति । 'द्रु गतौ' (भ्वा०प० अ० ) । ‘हरिमितयोर्दुवः’ ( उ० १।३४ ) 'शते च ' ( उ० ११३५ ) इत्यु- डिंसू ॥ ( १ ) ॥॥ शु पूजितं तुदति | 'तुद व्यथने' ( तु० उ० अ० ) 'इगुपधात्कित्' ( उ० ४ | १२० ) इतीन् । बाहुलकाद्रुक् । १ – खमध्योऽपि । तथा च महाकविप्रयोग:-'यन्मेखला भवति मेखलशैलपुत्री’~~-इति पञ्जिकासर्वधरादयः - इति मुकुटः ॥ २ - फलि तार्थंकथनमेतत् । विग्रहस्तु सिताश्च ते वाहाश्च ते सन्त्यस्यासौ सित वाही अर्जुनः । तस्येयम् इति बोध्यः ॥ यथाच्युतस्यैव व्याख्यानत्वे उपोत्तमे इकारा श्रवणानापत्तिः ॥ अमर० १४ 'इमं मे गङ्गे यमुने सरस्वति शुतुद्रि' इति हि श्रुतिः । यत्तु मुकुट:- शतद्रुरेव पृषोदरादित्वात् ( ६।३।१०९) आदिवर्ण- विकारे ‘शतः' इति स्वामी, शितं तीक्ष्णं ताशितः कौमुदी, इत्याह । तन्न । 'एतदबुध्यमानाः शितदुः सितद्रुर्वे- त्याहुः' इत्यनेन ( स्वामिग्रन्थेन ) तेनास्यार्थस्य दूषितत्वात् । व्युत्पत्त्यन्तरस्य कृतत्वाच्च ॥ ( २ ) ॥ * ॥ द्वे 'शताः ॥ विपाशा तु विपाटू स्त्रियाम् ॥ ३३॥ विपाशेति ॥ पाशं विमोचयति | 'सत्यापपाश-' ( ३ ॥१॥ २५ ) इत्यादिना ‘पाशान्मोचने' इति णिच् । पचाद्यच् ( ३॥ १।१३४) ॥ ( १ ) ॥*॥ तस्मादेव 'क्विप् च' ( ३।२।७६ ) इति क्विपि विपाट् ॥ ( २ ) ॥ ॥ द्वे' 'पापमोचिन्याः' ॥ शोणो हिरण्यबाहुः स्यात् शोण इति ॥ शोणति । 'शोटृ वर्णगत्योः' ( भ्वा० से० ) । पचाद्यच् ( ३ | १ | १३४) । 'शोणः कृशानौ स्यो- नाके लोहिताश्वे नदे पुमान् । त्रिषु कोकनदच्छाये' ॥ ( १ ) ॥ * ॥ हिरण्यं बाहावस्य ॥ ॥ हिरण्यं बहति । 'कर्मण्यण् ( ३ | २११ ) अदन्तः ( हिरण्यवाहः ) ॥ ( २ ) ॥ ॥ द्वे 'नरविशेषस्य' ॥ कुल्याल्पा कृत्रिमा सरित् कुल्येति ॥ कुले प्राणिगणे कुटुम्बे दांपत्ये वा साधुः 'तत्र साधु:' (४४९८ ) इति यत् । 'कुल्या नदी कुल्य मस्थि कुल्या वारिप्रणालिका' इति धरणेर्नदीमात्रेऽपि । ('कुल्यै स्यात्कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च । कुल्या पयः- प्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलोद्भवे कुलहिते त्रिषु मान्ये पुनः पुमान्’ ) ॥ ( १ ) ॥ ॥ एकं 'कृत्रिमस्व: ल्पनद्याः' ॥ शरावती वेत्रवती चान्द्रभागी सरस्वती ॥ ३४ ॥ : कावेरी ॥ 'शरादीनां च ' ( ६ | ३ | १२० ) इति दीर्घः ॥ ( १ ) ॥ ॥ शरावतीति || शराः सन्त्यस्याम् । मतुप् (५/२९५ ) | वेत्रमस्त्यस्याम् | मतुप् (५॥२॥९४) ॥ ( १ ) ॥ ॥ चन्द्रभागयोः पर्वतयोरियम् । तत्प्रभवत्वात् । 'तस्येदम्' (४ | ३ | १२० ) इल्यण् | 'टिडाँ-'। (४।१।१५ ) इति ङीप् प्राप्तः 'चन्द्रभागानयाम् (४|११४५ ) इति बाह्लादिगणसूत्रान्न भवति । स्वररूपयोरविशे- षात् । 'तापी तु तपती सैत्या, चान्द्रभागी तु चन्द्रिका चान्द्रभागा, शारदा तु कश्मीरेषु सरखती' इति शब्दार्णवः । संज्ञापूर्वकत्वावद्ध्यभावः 1 'चंद्रभागा चान्द्रेभागा चान्द्रभागी च सा मता | चन्द्रभागी च सैवोक्ता' इति द्विरूपकोषः ॥ ( १ ) || || सरांसि सत्यं स्याम् । मतुप् ( ५॥२॥ ९४) । 'सरस्वांस्तु नदे वार्धी नाऽन्यवद्रसिके, स्त्रियाम् । १- 'पशुपतिजटाबन्ध इव चन्द्रभागालंकृतो देशः' इति दमयन्ती; श्लेषः ॥ २ पक्षे टाप् इति मुकुटः ॥