पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १०४ ( तु० प० अ० ) । 'जू विशिभ्यां झच् ( उ० ३।१२६ ) ॥ (१) ॥*॥ पलति पल्यते वा । ‘पल गतौ' ( भ्वा०प० से ० ) । ‘सानसिपर्णसि’- (उ० ४।१०७ ) इति वलच् । 'वेशन्तः पत्वलोsस्त्री' इति वाचस्पतिः ॥ ( २ ) ॥ ॥ अल्पं च तत्स रश्च ॥ (३) ॥ ॥ त्रीणि 'स्वल्पसरोवरस्य' | वापी तु दीर्घिका ॥ २८ ॥ वापीति ॥ उप्यते पद्मायस्याम् । 'डुवप् बीजतन्तुसं- ताने' (भ्वा० उ० अ० ) । 'वसिवपियजिराजि - ' ( उ० ४ | १२५ ) इतीज् । 'कृदिकारात्- ' (ग० ४|११४५ ) इति वा ङीष् । ‘वाप्यां वापिरपि स्मृता' इति द्विरूपकोषः ॥ (१) ॥*॥ दीर्धैव । ‘संज्ञायां कन्’ (५॥३॥७५ ) ॥ (२) ॥ ॥ द्वे 'वाप्याः ॥ खेयं तु परिखा खेयमिति ॥ खन्यते । 'खनु अवदारणे' ( भ्वा० उ० से० ) । ‘ई च खनः’ ( ३।११११ ) इति यत् ॥ (१) ॥*॥ परितः खन्यते, इति । ‘अन्येभ्योऽपि (बा० ३१२११०१ ) इति डः ॥ (२) ॥*॥ द्वे 'दुर्गादिपरितः खातस्य' ॥ आधारस्त्वम्भसां यत्र धारणम् । आधार इति ॥ आध्रियते जलमस्मिन् । 'अध्याय- न्याय-' ( ३।३।१२२ ) इति घञ् । 'आधारक्षाधिकरणेऽ- प्यालवालेऽम्बुधारणे' ॥ ( १ ) || एकं 'बांध' इति ख्यातस्य ॥ स्यादालवालमावालमावापः स्यादिति ॥ आ समन्ताज्जलस्य लवम् आलाति । 'ला आदाने' (अ०प० अ० ) । मूलविभुजादित्वात् (वा० ३॥ २|५ ) कः ॥ * ॥ लवमालाति । तद्भिनम् | नसमासे ( अं- लवालः ) हस्खादिः - इत्यन्यै ॥ (१) ॥ ॥ आवलतेऽम्भोऽ- नेन । ‘वल संवरणे’ (भ्वा० प० से ० ) 'अलब्ध' (३।३।१२१) इंति घञ् । आ ईषत् वाला वृक्षा अत्र वा ॥ (२) ॥ * ॥ आ वपन्ति जलमत्र । ‘डुवप् बीजतन्तुसंताने' ( भ्वा० उ० से ० ) । ‘हुलश्च’ ( ३।३।१२१ ) इति घञ् । 'आवापो भाण्डपैचने परिक्षेपालवालयोः’ ॥ ( ३ ) ॥ * ॥ त्रीणि 'वृक्षमूलकृतज- लाधारस्य' ॥ [ प्रथमं काण्डम् अथ नदी सरित् ॥ २९ ॥ तरङ्गिणी शैवलिनी तटिनी हृदिनी धुनी । स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ ३० ॥ १- 'इहैव जम्बूतरुमालवालवरपरीयुषोच्चैर्भरतेऽब्धिना वृते' इति प्रयोगाद्दीर्घादिः॥ २–‘अलवारोधिषु पयःसु बिभ्रतः सपलाशिरा शिरिव मूलसंततिः' इति माघाद्रस्वादिः- इति मुकुटबुधमनोहरे ॥ ३ ~भाण्डपचनमापाकस्थानम् । तत्र यथा - 'आवापधूमपरिधू न्तरिक्षम् ॥ अरिचिन्तायामपि यथा 'परं प्रत्यावापः फलति कृत सेकस्तरुरिव' ॥ वलयेऽपि यथा 'प्रकोष्ठः शुशुमे' तस्या गतोऽप्या. बापशून्यताम्’ – इत्यनेकार्थकैरवा करकौमुदी ॥ ४- 'भ्राण्डवपने' इति पाठः ॥ अथेति ॥ नदति । 'णद अव्यक्ते शब्दे' (भ्वा०प० से० ) । पचादिषु ( ३|१| १३४) 'नदट्' इति टित्त्वनिपातनात् 'टिड्डा - (४|११५ ) इति ङीष् । ( 'नदी सरिति, शोणादौ ना ) ॥ (१) ॥॥ सरति । 'सृ गतौ ' ( भ्वा० प० से ० ) | सरतेरिनिः ( उ० १॥९७ ) ॥ (२) ॥ ॥ तरङ्गाः सन्त्यस्याम् । अत इनिः (५/२/११५ ) ॥ (३) ॥ ॥ शैवलमस्त्यस्याम् ॥ (४) ॥ ॥ तटमस्त्यस्याः ॥ ( ५ ) ॥ ॥ हृदाः सन्त्यस्याम् । 'हादिनी' इत्यन्ये ॥ ( ६ ) ॥ * ॥ धुनोति वेतसादीन् । विप् ( ३।२।१७८ ) पृषोदरादित्वात् ( ६।३।१०९ ) नुक् । नान्त- त्वान्डीप् (४।१॥५) ॥ (७) ॥ ॥ स्रोतांसि सन्त्यस्याम् । मतुप् (५॥२॥९४) ॥*॥ 'अस्माया -' (५॥२॥१२१ ) इति विनौ तु 'स्रोतस्विनी' इत्यपि ॥ ( ८ ) ||| द्वीपमस्य स्याम् । मतुप् (५।२।९४ ) ॥ (९) ॥*॥ स्रवति । ‘लटः शतृ-’ ( ३।२।१२४ ) । ‘उगितश्च (४|११६ ) इति ङीप् । ‘शप्- श्यनोः--’ ( ७।१।८१ ) इति नुम् ॥ (१०) ॥ * ॥ निम्नं गच्छति । 'गम्ऌ गतौ' (भ्वा०प०अ० ) । 'अन्येभ्योऽपि ' ( वा० ३।२।१०१ ) इति डः ॥ (११) ॥ अपां समूह आपम् । तेन गच्छति । डः ( वा० ३।२१४८ ) ॥ - ॥ अप गच्छति । डः ( वा० ३।२।१०१ ) | हस्वादिरपि । 'विद्यादगारमागार- मपगामा पगामपि' इति द्विरूपकोषः ॥ (१२) ॥ ॥ द्वादश 'नद्याः' ॥ गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३१ ॥ 11 गङ्गेति ॥ गच्छति । 'गत् गम्ययोः' ( उ० ११ १२३ ) (१) ॥ ॥ विष्णुः पदं स्थानं यस्याः । गौरादिः (४॥१॥४१)। 'विष्णुपदं नभोऽब्जयोः विष्णुपदस्तु क्षीरोदे विष्णु- पदी सुरापगा । ( संक्रान्तिर्द्वारिका चापि )' इति हैमः ॥ (२) ॥ ॥ जहो राजर्षेस्तनया ॥ (३) ॥ ॥ सुराणां निम्नगा । क्षुम्नादिः ( ८२४ | ३९ ) ॥ (४) ॥ ॥ भगीरथस्येयम् । ‘तस्ये दम्' ( ४ | ३ | १२० ) ईल्यण् ॥ (५) ॥*॥ त्रीनूँ पथो गच्छति । डः (वा० ३।२।४८ ) यद्वा त्रयाणां पथां समाहारः त्रिपथम् | तेन गच्छति । डः ( ३।२।४८ ) ॥ (६) ॥ ॥ त्रीणि स्रोतांसि यस्याः, ( 'त्रिस्रोता जह्रुकन्यायां स्रोतस्वत्यन्तरे स्त्रियाम्') (७) ॥ * ॥ भीष्मं सूते | ‘ूङ् प्राणिप्रसवे' (अ० आ० अ०) । क्विप् ( ३।२।१७८ ) ॥ (८) ॥ * ॥ अष्टौ 'भागीरथ्याः ॥ नतीश्लेषः ॥ २ - तथा च भारते- 'क्षितौ तारयते मर्त्यान्नागांस्ता- १- 'तुहिनाचल इव पुण्यभागीरथीसहितो नलः' इति दमय- रयतेऽप्यथः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता' इति - । इति मुकुटः ॥