पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्ग: १० ] व्याख्यासुधाख्यव्याख्यासमेतः । जलाशया जलाधाराः जलेति ॥ जलम् आशयो हृदयम् अस्य । जलम् आ- शेते तिष्ठति अत्र, इति वा । 'पुंसि' ( ३ | ३ | ११८ ) इति घः । 'जलाशयो जलाधारे स्यादुशीरे नपुंसकम् ॥ ( १ ) ॥॥ आध्रियतेऽत्र । ‘धृङ् अवस्थाने ' ( तु० आ० अ० ) । 'अध्या- यन्याय-’ ( ३।३।१२२) इति घञ् । जलस्य धाराः ॥ (२) || || द्वे 'तडागादीनाम्' ॥ तत्रागाधजलो हदः ॥ २५ ॥ तत्रेति ॥ तत्र तेषु मध्ये । अगाधं जलं यत्र स जला- शयः । ह्रादते । 'हृाद अव्यक्ते शब्दे ' ( भ्वा० आ० से ० ) । पचाद्यच् (३।१।१३४) पृषोदरादित्वात् ( ६ | ३ | १०९) ह्रस्वः ॥ (१) ॥ * ॥ एकम् 'अगाधजलकूपस्य' || आहावस्तु निपानं स्यादुपकूपजलाशये । आहाव इति ॥ आहूयन्तेऽत्र । 'हेव् स्पर्धायां शब्दे च' ( भ्वा० उ० अ० ) । 'निपानमाहाव : ' ( ३।३।७४ ) ॥ (१) ॥ * ॥ नियतं पिबन्त्यस्मिन् । 'करणा-' इति ल्युट् ॥ (२) ॥ * ॥ द्वे 'कूपसमीपरचितजलाधारस्य' | पुंस्येवान्धुः प्रहिः कूप उपानं तु पुंसि वा ॥ २६ ॥ पुंसीति ॥ अभ्यते । ‘अम गल्यादौ' ( भ्वा० प० से ० ) । 'अर्जिहशिकम्यमि-' (१॥२७ ) इति कुः धुक् च । यद्वा अन्धयति । 'अन्ध दृष्ट्युपघाते' ( चु० उ० से ० ) । मृगथ्वा दित्वात् ( १॥३७ ) कुः ॥ ( १ ) ॥ * ॥ प्रहियते । 'प्रे हरतेः कूपे' ( उ० ४।१३५ ) इति इः डिञ्च ॥ ( २ ) ॥ * ॥ कौति । 'कु शब्दे ' ( अ० प० से ० ) | ‘कुयुभ्यां च ' ( उ० ३।२७ ) इति पो दीर्घश्च । कुत्सिता ईषद्वा आपोऽत्र । 'ऋक्पूर-' (५॥४॥७४) इत्यः । ‘ऊदनो:-' ( ६|३|९८ ) इत्यत्र दीर्घनि- र्देशादन्यत्राप्यत्, इति वा । 'कूप: कूपक - मृन्माने गर्तान्धु- गुणवृक्षके ॥ (३) ॥ ॥ उदकं पिबन्त्यस्मिन् । अधिकरणे ल्युद ( ३।३।११७)। ‘उदकस्योदः- ( ६|३|५७ ) ॥ (४) ॥*॥ तु–स्थाने च उचितः ॥ ॥ चत्वारि 'कूपस्य' ॥ नेमित्रिकाय नेमिरिति ॥ अस्य कूपस्य | नयन्त्यनया 'नियो मिः' ( उ० ४१४३ ) । 'नेमिन तिनिशे, कूपत्रिकाचकान्तयोः स्त्रि- याम्’ ॥ (१) ॥*॥ तिस्रोऽस्रयोऽस्याः । 'संख्यायाः संज्ञास- ङ्घसूत्राध्ययनेषु' (५॥१॥५८ ) इति कन् । 'त्रिका कूपस्य नेमौ स्यान्त्रिक पृष्ठाधरे त्र्ये' इति विश्वमेदिन्यौ ॥ (२) ॥॥ १ ~~भत्र तु ‘अन्यलिङ्गकम्' इति लिखितमासीत् । परं तु मूलमेदि नीदृष्टं हैमविश्वानुगुणं गृहीतम् ॥ २-मृम्माने काचभाण्डे यथा- 'कृपेषु रूपे क्षिप गन्धतैलम्' इत्यनेकार्थकैरवाकरकौमुदी ॥ ३-उद- पानस्य त्वन्तत्वात् 'पुंसि वा' इत्यनेन संबन्धः । पूर्वेषां तु 'पुंस्येव' इत्यनेन - इति मुकुटबुधमनोहरे ॥ ४ - त्रये यथा 'तत्रापि त्रिकदर्श - नम्' इत्यनेकार्थकैरवाकरकौमुदी ॥ द्वे 'कूपस्यान्तरे रज्ज्वादिधारणार्थदारुयन्त्रस्य ॥ वीनाहो मुखबन्धनमस्य यत् । वीनाह इति ॥ विनह्यतेऽनेन । 'गह बन्धने' (दि० उ० अ० ) । 'हलच' ( ३ | ३ | १२१ ) इति घञ् । 'उपसर्गस्य घञि' ( ६ | ३ | १२२ ) इति दीर्घः ॥ (१) ॥ ॥ 'कूपमुखे इष्टकादिभिर्बद्धस्य' एकम् || पुष्करिण्यां तु खातं स्यात् पुष्केति ॥ पुष्कराणि सन्त्यस्याम् । 'पुष्करादिभ्यो देशे (५/२/१३५ ) इतीनिः । 'पुष्करिणी नद्यां सरोजिन्यां जला- शये ॥ ( १ ) ॥ * ॥ अखानि । 'खनु अवदारणे' (भ्वा० उ० से० ) | क्तः ( ३।२।१०२) । 'जनसनखनाम्-' (६|४|४२ ) इत्यावम् ॥ (२) ॥*॥ द्वे 'समचतुरस्रखातस्य' ॥ अखातं देवखातकम् ॥ २७ ॥ अखातमिति ॥ खाताद्भिनम् ॥ (१) ॥ ॥ देवेन खा- तम् ॥ (२) ॥ * ॥ 'अखातो देवखातकः' इति पुंस्काण्डेऽमर- दत्तात् पुंस्यपि ॥ * ॥ द्वे 'अकृत्रिमजलाशयस्य' | देवद्वा- रस्थजलाशयस्येत्यन्ये ॥ पद्माकरस्तडागोऽस्त्री पद्मेति ॥ पद्मानामाकरः ॥ (१) ॥ * ॥ तज्यते । 'तड आघाते' (चु०प० से ० ) । 'तडागादयश्च' इति निपातितः । 'तडागस्तु जलाधार विशेषे यंत्रकूपके' इति मेदिनी । पिना- कादित्वात् ( उ० ४११५ ) 'तडाकः' इति कश्चित् ॥ॐ॥ तटम् अकति, अगति वा । 'अक अग कुटिलायां गतौ ? ( भ्वा०प० से ० ) | 'कर्मण्य ' ( ३ | २ | १ ) । ( तटाकः, तटागः ) इत्येके | ( २ ) ॥ ॥ द्वे 'सपद्मागाधज- लाशयस्य' ॥ कासारः सरसी सरः । कासार इति ॥ कासते । 'कास शब्दे' (भ्वा० आ० से ० ) | 'तुषारादयश्च' ( उ० ३११३९ ) इत्यारन् । यदा ईषत् सा- रोऽस्य । 'ईषदर्थे च ' ( ६|३|१०५ ) इति कोः कादेशः । कासोऽस्यास्तीति वा । अर्शआद्यच् । कासमृच्छति 'ऋ गतौ’ ( भ्वा०प० से ० ) । 'कर्मण्यण्' ( ३ | २ | १ ) इति वा ॥ ( १ ) ॥ * ॥ स्रियते 'सृ गतौ ' ( भ्वा०प० से ० ) । कर्मण्यसुन् ( उ० . ४१८९) । ( 'सरो नीरतडागयोः ) ॥ (२) ॥॥ तत एव... महत्त्वे गौरादित्वात् ( ४११॥४१ ) ङीष् । ('सरसी विश्वका- सारे') ॥३॥ * ॥ त्रीणि 'कृत्रिमपद्माकरस्य' । पञ्चापि सरो- मात्रस्येत्यन्ये ॥ वेशन्तः परवलं चारपसरः वेशन्त इति ॥ विशन्त्यत्र मेकादयः । 'विश प्रवेशने' १ - विश्वे तु 'कटकेऽपि च' इति दृश्यते । मेक्निीमूलपुस्तके तु 'यत्रकूटके' इत्युपलभ्यते ॥