पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । क्षुद्राण्डमत्स्यसंघातः पोताधानम् क्षुद्रेति ॥ क्षुद्रादण्डाज्जाता मत्स्या:- क्षुद्राण्डमत्स्याः । तेषां संघातः ॥ (१) ॥*॥ पोते वहिने आधीयते । धाञः ( जु० उ० अ० ) कर्मणि ल्युट् (३|३|११३) यद्वा पोतोऽर्भक आधीयतेऽत्र । अधिकरणे ल्युट् (३।३।११७ ) ॥ (२) ॥॥ द्वे 'अण्डादचिरनिर्गतमत्स्यसङ्घस्य' || अथो झषाः । रोहितो महुरः शालो राजीवः शकुलस्तिमिः ॥ १९ ॥ तिमिंगिलादयश्च अथविति ॥ अथो झषविशेषा उच्यन्ते । रोहति । 'रुह बीजजन्मनि प्रादुर्भावे च' (भ्वा०प० अ० ) 'रहे रश्च लो वा' ( उ० ३।९४ ) इतीतच् । रोहणम् । घञ् ( ३ | ३ | १८ ) | रोहो जातोऽस्य | तारकादित्वात् (५१२१३६ ) इतज्वा । 'रो- हितं कुङ्कुमे रक्ते ऋजुशकशरासने । पुंसि स्यान्मीनमृगयो- भेंदे लोहितकद्रुमे' ॥ (१) ॥ * ॥ मज्जति | 'टुमस्जो शुद्धौ ' ( तु०प० अ० ) । 'मद्भुरादयश्च' ( उ० १९४१ ) इति निपा- | तितः ॥ (१) ॥ * ॥ शाज्यते । 'शाडू श्लाघायाम्' ( भ्वा० आ० से ० ) । कर्मणि घन् ( ३|३|१९ ) | डलयोरैक्यम् । 'शालो झषे, धीवर एव दाशः' इत्यूष्मभेदात्तालव्यादिः । (‘कैवर्त इव बद्धराजीवोत्पलसालो वसन्तकालः' इति वासव- दत्ताश्लेषाद्दन्त्यादिश्च । कैवर्तपक्षे सालो मत्स्यभेदः । वसन्त- पक्षे सालं पुष्पम् )। सालं पुष्पे क्लीवं वृक्षे तु पुमान् । 'पुंसि भूरुहमात्रेऽपि सालो वरणसर्जयोः' इति रभसे तु दन्त्यादिः । 'शालो हाले मत्स्य मेदे शालौकस्त प्रदेशयोः' इति हैमः ॥ (१) ॥ ॥ राजी रेखास्यास्ति । 'अन्यत्रापि दृश्यते' (५॥२॥ १०९ ) इति वः । ‘अथ राजीवो मीनसारङ्गभेदयोः । रा- जीवमब्जे' इति हैमः ॥ ( १ ) ॥ * ॥ शक्नोति गन्तुं वेगेन । ‘शलृ शक्तौ’ (स्वा० प०अ०) । बाहुलकादुलच् ॥ (१) ॥*॥ ताम्यति । ‘तमु ग्लानौ’ (दि० प० से ० ) । 'ऋमित - मिशतिस्तम्भामत इच्च’ (उ० ४।१२२ ) इतीन् ॥ (१) ॥ ॥ तिमिं गिरति । ‘गॄ निगरणे’ ( तु०प० से० ) । 'मूलविभु- जा-' (वा० ३१२१५ ) इति कः । 'अचि विभाषा' (८२ २१ ) इति लः । ‘गिलेऽगिलस्य' (वा० ६१३१७० ) इति नुम् ॥ (१) ॥ ॥ आदिशब्दात् तिमिंगिलगिलनन्दीवर्तादयः ॥ * ॥ 'मत्स्यविशेषाणां' पृथगेकैकम् ॥ अथ यादांसि जलजन्तवः । अथेति ॥ यान्ति वेगेन । 'या प्रापणे' (अ०प० अ० ) । असुन् ( उ० ४।१८९ ) । बाहुलकाहुक् । यद्वा याति । किप् ( ३ | २ | १७८ ) यामति । 'अद भक्षणे' ( अ०प०अ० ) । [ प्रथमं काण्डम् असुन् ( उ० ४।१८९ ) यां दस्यति वा । 'दसु उपक्षये' ( दि० प० से० ) । विप् ( ३ | २ | १७८ ) | साहचर्यस्य सर्वत्रानिया - मकत्वात् 'सान्त - ' (६|४|१० ) इति दीर्घः ॥ (१) ॥ ॥ जलानां जन्तवः ॥ (२) ॥ * ॥ द्वे 'जलचरमात्रस्य' | तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ २० ॥ १~~्वस्तुतस्तु ‘गंडकः शकुलार्भंकः । क्षुद्राण्डमत्स्यसंघातः पोता- धानमथो झषाः । सहस्रदंष्ट्रः पाठीनः' इति लोकः 'रोहितो मदुरः' इति पाठः इति पीयूषम् ॥ तद्भेदा इति ॥ तेषां जलजन्तूनां भेदा उच्यन्ते ॥ शि- शून् मारयति । 'मृङ् प्राणत्यागे' ( तु० आ० अ० ) । णिच् (३।२।२६ ) । 'कर्मण्यण्’ (३|२|१) | 'शिशुमारोऽम्बुसंभू- तजन्तौ तारात्मकाच्युते' इति विश्वमेदिन्यौ ॥१॥ * ॥ उ- नत्ति । 'उन्दी क्लेदने' ( रु०प० से ० ) | 'स्फायि - ( उ० २॥ १३ ) इति रक् ॥ (१) ॥ * ॥ शङ्कतेऽस्मात् । 'शकि शङ्का- याम्' ( भ्वा० आ० से ० ) । 'खरुशकुपीयु - ' ( उ० ११३६ ) इति निपातितः । 'शङ्क: पत्रशिराजाले संख्या की लकशंभुषु । यादोऽस्त्र मेदयोर्मेंद्रे' इति हैमः ॥ ( १ ) ॥ * ॥ कृणाति । 'कृ हिंसायाम् ( भ्वा०प० से ० ) | पचायच् ( ३।१।१३४ ) मनुष्याणां करः | पृषोदरादिः (६।३।१०९) । यद्वा मते । 'मकि भूषायाम्' (भ्वा० आ० से ० ) | अच् ( ३।१।१३४)। आगमशास्त्रस्यानित्यत्वान्न नुम् । मकं राति । 'रा दाने' ( अ० प० अ० ) । कः ( ३।२।३ ) । 'मकरो निधौ । न राशिवि- शेषे च' इति हैमः ॥ ( १ ) ॥ * ॥ आदिना ग्राहकुम्भीरादयः ॥ * ॥ 'जलजन्तुविशेषाणां' पृथक्पृथक् ॥ | स्यात्कुलीर: कर्कटकः । ‘गम्भीरादयश्च' इतीरन् । कौ लीयते । ‘लीङ् श्लेषणे' ( दि० स्यादिति ॥ कुलति । 'कुल संस्त्याने' (भ्वा० प० से ० ) । आ० अ० ) । बाहुलकाद् रक् । यद्वा कुलमस्यास्ति । 'अत 1 इनिः' (५/२/११५ ) | तमीरयति । 'कर्मण्यण्’ ( ३।२।१ ) । १०८) । कुत्सिता लीः । तां राति वा ॥ (१) ॥ ॥ कृणाति । जनकभक्षकत्वात् । लयनम् - लीः | संपदादिः ( वा० ३|३| 'कहिँसायाम्' ( क्या० प० से ० ) । 'अन्येभ्योऽपि’ (३१२। ७५) इति विच् । कटति । 'कटे वर्षावरणयोः' (भ्वा० प० से॰) । पचायच् ( ३॥ १।१३४ ) । कर् चासौ कटश्च । ‘अहरादीनां पत्यादिषु वा रेफ: ' ( वा० ८|२|७० ) ततः खार्थे कनू ( 41 ३।७४ ) । 'कर्क' इति' सौत्रो धातुः । ‘शकादिभ्योऽटन्’ ( उ० ४|८१ ) वा० । कर्क श्वेतवर्ण टलति । 'टल गतौ' ( भ्वा० प० से ० ) । डः ( वा० ३।२।१०१ ) वा० | कर्कटः | 'कुली रे करणे स्त्रीणां राशौ खगे' इति हैमः ॥ ( २ ) ॥*॥ द्वे 'कुलीरस्य' । कर्मे कमठकच्छपौ । कूर्म इति ॥ कुत्सितः कौ वा ऊर्मिवेंगोऽस्य । 'अच्- प्रत्यन्वव -' (५॥४/७५) इत्यत्र ‘अच्’ इति योगविभागा- दच् समासान्तः । 'ऊर्मिः स्त्रीपुंसयोवींच्यां प्रकाशे वेग- | भङ्गयोः' इति रभसः ॥ (१) ॥ * ॥ काम्यते । 'कमु कान्तौ '