पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्गः १०] उडुपं तु प्लवः कोलः उडुपमिति ॥ उडुनो जलात् पाति । 'पा रक्षणे' ( अ ० प० अ० ) 'सुपि स्थः' (३१२१४) इत्यत्र 'सुपि' इति योग- विभागात्कः | उडूनीव पाति, इति वा । 'उडुपश्चन्द्रभेलयोः इति धरणिः ॥ (१) ॥*॥ प्लवते । 'लुङ् गतौ ' (भ्वा० आ० अ०)। पचायच् (३।१।१३४ ) | 'प्लव: क्षेतौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ मेलकमेकयोः । क्रमनिम्नमही- भागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तक- भिद्यपि ' इति हैमः ॥ ( २ ) || कोलति | 'कुल संस्त्याने' (भ्वा० प० से०) ‘ज्वलिति—’ (३।१।१४०) इति णः । 'पोतृ- लवकयोः कोलः कोलं तु बदरीफलम्' इति शाश्वतः । 'कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ । कोलं तु बदरे कोला पिप्पल्यां चव्यमेषजे' इति हैमः ॥ (३) ॥ * ॥ त्रीणि 'तृणा- दिनिर्मिततरणसाधनस्य' || व्याख्यासुधाख्यव्याख्यासमेतः । सांयात्रिकः पोतवणिक् स्रोतोऽम्बुसरणं स्वतः । स्रोत इति ॥ स्रवति । 'स्रु गतौ' ( भ्वा०प० अ० ) । 'सुरीभ्यां तुद् च' ( उ० ४।२०२) इयसुन् तुडागमः । स्रोतो दन्त्यादिः । ‘स्रोतः सद्यःसकलसलिलम्' इति दन्त्यादिषू- ष्मविवेकात् । 'स्रोतोऽम्बुवेग इन्द्रिये ॥ ( १ ) ॥॥ एकम् 'अकृत्रिमजलवहनस्य' || आतरस्तरपण्यं स्यात् आतर इति ॥ आतरन्त्यनेन । 'पुंसि संज्ञायाम् ' ( ३३३॥ ११८) इति घः । यत्तु - 'ऋदोर' ( ३|३|५७ ) - इति मुकुटः। तन्न। परत्वाल्युटः प्रसङ्गात् । 'आतरस्तरपण्यं स्या- दनुत्तरम्' इति बोपालितः ॥ (१) ॥ ॥ तरणम् | 'ऋदो- रप्' (३।३।५७ ) | तरस्य पण्यम् ॥ * ॥ द्वे 'नद्यादि- तरणे देयमूल्यस्य' || द्रोणी काष्टाम्बुवाहिनी ॥ ११ ॥ द्रोणीति ॥ द्रवति । 'द्रु गतौ' (भ्वा०प० अ०) । 'व- हिश्रि’ (उ० ४।५१) इति निः । 'कृदिकारात्- ' (०४॥ १॥ ४५) इति ङीष् । द्रोणिः काष्टाम्बुसेचनी दुणिश्च' इति रूपरत्नाकरात् द्वणिरपि । ‘द्रुण हिंसागत्योः' (तु० प० से० ) । ‘इगुपधात् कित्’ (उ० ४।१२० ) । (डीषि दुणी । 'दुण्य म्बुद्रोणिकच्छप्योः' इति मेदिनी) । 'द्रोणी काष्टाम्बुवाहिन्यां गवादन्यामपीष्यते’ ॥ (१) ॥ ॥ पुनः पुनरम्बुवहति । 'बहुल- माभीक्ष्ण्ये' (३।३१८१) इति णिनिः ॥ ( २ ) ॥ * ॥ द्वे 'काष्ठ- पाषाणकृत नौकाकाराम्बुसेचन्याः ॥ इत्युक्त्वा १ – 'प्लवंगेच' इति पाठः ॥ २- मुकुटबुधमनोहरयोस्तु 'आतारानुत्तरावप्यत्र' दीर्घमध्यमेवेदमुदाहृतम् ॥ ३ – 'मरकतमणिद्रोणिसरला' इति पूर्वकविप्रयोगः -- इति मुकुटबुध मनोहरे ॥ ४-द्रोणीभिरम्भसि चरन्ति महार्णवस्य' इत्यने कार्य करवाकर कौमुदी ॥ अमर० १३ ९७ सांयेति ॥ समुदितानां गमनं द्वीपान्तरंगमनं वा संयात्रा | सा प्रयोजनमस्य | 'तदस्य प्रयोजनम्' (५1१1१०९) इति ठञ्ज् ॥ (१) ॥॥ पोतेनोपलक्षितो वणिक् ॥ (२) ॥ * ॥ द्वे 'वहित्र- गामिनो वणिजः ॥ कर्णधारस्तु नाविकः । कर्णेति ॥ 'कर्णः श्रोत्रमरित्रं च' इति दुर्गः । तं धरति । ‘धृञ् धारणे' (भ्वा० उ० अ०) । ‘कर्मण्यण्’ (३।२।१) ॥ (१) ॥*॥ नात्रा तरति । ‘नौ द्व्यचष्ठन्' (४४७) ॥ (२) ॥॥ द्वे 'नाविकस्य' ॥ नौपृष्ठदण्डधारकस्य - इत्यन्ये ॥ नियामकाः पोतवाहाः नियेति ॥ नियच्छन्ति पोतम् । 'यम नियमने' ( भ्वा० प० अ० ) ण्वुल् ( ३|१|१३३) । 'नियामकः पोतवाहे कर्म- (f) धारे नियन्तरि' ॥ (१) || पोतं वहन्ति । 'कर्मण्य ण ' (३।२।१ ) ॥ (२) ॥ * ॥ द्वे 'वहित्रवाहकस्य' || कूपको गुणवृक्षकः ॥ १२ ॥ ‘सुपि ( ३१२१४ ) इति कः ॥ (१) ॥ ॥ गुणानां रज्जूनां कूपेति ॥ कूपे कायति । 'कै शब्दे' ( भ्वा०प० अ० ) । वृक्षः । ‘संज्ञायां कन्’ ( ५॥३॥७५ ) ॥ (२) ॥ * ॥ द्वे 'नौम- ध्यस्थरज्जुबन्धनकाष्ठस्य' | नौबन्धनकीलकस्येत्यन्ये ॥ नौकादण्डः क्षिपणी स्यात् नौकेति ॥ नौकाया दण्डः ॥ (१) ॥ ॥ क्षिप्यतेऽनया | 'क्षिपेः किच्च' ( उ० २।१०७ ) इत्यनिः ॥ ॥ बाहुलकाद्भुणे क्षेपणिरपि । 'क्षेपणं प्रेरणे, नौकादण्डजालभिदोः स्त्रियाम्” ॥ (२) ॥ * ॥ द्वे' 'नौका पार्श्वद्वयबद्धचालनकाष्ठस्य ॥ अरित्रं केनिपातकः । अरित्रमिति ॥ ऋच्छत्यनेन । 'ऋ गतौ' ( भ्वा०प० अ० ) । 'अर्तिऌधू-' ( ३।२।१८४) इतीत्रः ॥ (१) ॥*॥ के जलै निपातोऽस्य । 'हलदन्तात् ' ( ६|३|९ ) इत्यलुक् । ‘शेषात् -' (५१४११५४) इति कप । ‘संज्ञायां कन्’ (५॥३॥७४) वा (२) ॥ * ॥ द्वे 'नौपृष्ठस्थचालनकाष्ठस्य' ॥ अभ्रिः स्त्री काष्ठकुद्दालः अभ्रिरिति ॥ अभ्रति । 'अभ्र गतौ' (भ्वा० प० से० ) इन् ( उ० ४|११८) ॥ (१) ॥ ॥ कुम् उद्दालयति । 'दल विंश- रणे' (भ्वा० प० से ० ) 'कर्मण्यण' (३।२।१ ) शकन्ध्वादिः ( वा ० ६।१।९४) । काष्ठस्य कुद्दालः ॥ (२) ॥ ॥ द्वे 'पोतादेर्मला- पनयनार्थं काष्ठादिरचितकुद्दालस्य' || १ – संपूर्वस्य यादींपान्तरगमने वृत्तिः' इति चाणक्यटीकेति कलिङ्ग:- इति मुकुटः ॥ २ – 'आतिदैशिककार्यस्यानित्यत्वाद्रुणा भावाभावे क्षेपणिः | 'कृदिकारात्' ग० (४|१९४५) इति ङीषि क्षेपणी च' इति माधवी - इति मुकुटः ।।