पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वारिवर्ग: १० ] व्याख्यासुधाख्यव्याख्यासमेतः । ९३ ॥ * ॥ अर्णांस्यत्र सन्ति । 'अर्णसो लोपश्च' ( ५१२ ) इति वः 'पीङ् पाने' ( दि० आ० अ० ) वा असुन् ( उ० ४।१८९ ) | सलोपश्च ॥ (११) ॥ * ॥ रत्नानामाकरः ॥ (१२) ॥ * ॥ ज- लानि धीयन्तेऽत्र । 'कर्मण्यधिकरणे च ' ( ३|३|९३) इति किः । जलानां निधिरिति वा ॥ (१३) ॥ ॥ यादसां जल- जन्तूनां पतिः ॥ (१४) ॥ ॥ अंपां पतिः ॥ (१५) ॥ ॥ पञ्चदश 'समुद्रस्य' || 'पयः क्षीरे च नीरे चै' इति हैमः ॥ (७) ॥ ॥ कीलां ज्वालामलति वारयति 'अल भूषणादौ' (भ्वा०प० से० ) । 'कर्मण्यण्' ( ३|२|१ ) | और्वाग्नेः कीलां लाति वा । 'की- | लालं रुधिरे तोये' इति हैमः ॥ (८) ॥॥ न मृतं मरण- मस्त्यस्मिन् । प्राणस्यापोमयत्वात् । 'अमृतं यज्ञशेषे स्यात्पी- यूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरि- देवयोः | अमृता मागधीपथ्यागुडूच्यामलकीषु च ॥ (९) ॥ * ॥ जीव्यतेऽनेन । 'जीव प्राणधारणे' ( भ्वा० प० से० ) । । करणे ल्युट ( ३|३|११६ ) । 'जीवनं वर्ततेप्राणधार- •णयोरपि । जीवनी जीवना चापि जीवन्तीभेदयोः क्रमात्' ॥ (१०) ॥॥ भूयते । ‘भू प्राप्तौ ' ( चु० आ० से ० ) । 'भू- सूधूभ्रस्जिभ्यश्छन्दसि' ( उ० २१८० ) इति क्युन् । यद्वा भ वन्त्युत्पद्यन्तेऽनेन । करणे ल्युट् ( ३|३|११६ ) संज्ञापूर्वकत्वा- गुणाभावः । 'भुवनं विष्टपेsपि स्यात्सलिले गगने जले ॥ (११) ॥ ॥ वन्यते संभज्यते सेव्यते वा । वन 'संभक्तौ' ( भ्वा० प० से ० ) । 'वनु याचने' ( तु० आ० से ० ) वा । क- र्मणि घञ् ( ३।३।१९)। संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यत्तु - भुवनबाहुलकात् क्युनि 'अनुदात्तोपदेश-’ ( ६।४।३७ ) इ- त्यादिना नलोपे वनम्, – इत्युज्वलदत्तः - इति मुकुटः । न । 'अनुदात्तोपदेश -' (६|४|३७ ) इत्यनुनासिकलोपस्य क्विति झलि विधानात्क्युनि तदप्रसङ्गात् । अन्यथा वन्यत इत्यादावपि प्रसङ्गात् । 'वनं प्रस्रवणे गेहे प्रेवासेऽम्भसि कानने' इति हैमः ॥ (१२) ॥ ॥ कं सुखं बध्नाति । 'बन्ध बन्धने' (त्र्या० प० अ० ) । 'कर्मण्यण' ( ३।२।१ ) । 'क बन्धं सलिले रुण्डे' इति शाश्वतादिदमेकं नाम । 'कबन्धो- ऽस्त्री क्रियायुक्तमपमूर्धकलेवरे । क्लीबं जले, पुंस्युरे राहुरक्षोविशेषयोः' ॥ * ॥ केचित्तु - ‘कमन्धम्' इति पठित्वा द्वे नामनी-इत्याहुः ॥ (१३) ॥॥ उनत्ति । ‘उन्दी क्लेदने’ ( रु०प० से ० ) । 'उदकम् ( उ० २१३९) इत्युणादिसूत्रेण | साधु । यत्तु – उदति - इति विगृहीतवन्तौ स्वामिमुकुटौ । तच्चिन्त्यम् | उन्दे रौधादिकत्वात् ॥ (१४ ) ॥॥ पाति | ‘पा रक्षणे' ( अ० प० से ० ) । 'उदके थुच' ( उ०४/२०४ ) टाभ्यां कृतम् । तन्न । 'पातेर्वले जुट्' इत्यनुवृत्तिविरोधात् । इत्यसुन् थुट् । यत्तु – पीयते इति विप्रहप्रदर्शनं स्वामिमुकु- तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥ तस्येति ॥ क्षीरमुदकं यस्य । ‘उत्तरपदस्य च ' (वा० ६ | ३।५७ ) इत्युः ॥ (१) ॥*॥ एवं लवणोदः, इक्षुरसोदः, सु; रोदः, दधिमण्डोदः, स्वादूदः, धृतोदः ॥ 'समुद्रविशेषाणां' पृथक्पृथगेकैकम् ॥ आपः स्त्री भूनि वार्वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३॥ कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशंवरम् ॥ ४ ॥ मेघपुष्पं घनरसः आप इति ॥ आप्नुवन्ति, आप्यन्ते वा । 'आप व्याप्तौ' ( स्वा० प० अ० ) । ‘आप्नोतेर्हखश्च' ( उ० २१५८ ) इति क्विव् हस्वत्वं च ॥ ॥ असुनि ( उ० ४ २०८ आपः सौन्तं क्लीयं च । ‘कबन्धमुदकमापोनीरवार्वारिनारम् । क्लीवमपि ' इति संसारावर्तात् ॥ (१) ॥ ॥ वारयति । वृजो ण्यन्तात् ( ३ | १ | २६) क्विप् ( ३।२।१७८) । वार् क्लीवैमुक्तसंसारावर्तात् ॥ (२) ॥॥ ‘वसिवपि–’ (उ० ४|१२५ ) इतीजि वारि च । ('वारि हीबेरनीरयोः । वारिर्घठ्यां सरस्वत्यां गजबन्धनभु- व्यपि’) ॥ (३) ॥*॥ सलति । 'षल गतौ ' ( भ्वा०प० से ० ) । ‘सलिकलि–’ ( उ० १।५४ ) इतीलन्च् । रलयोरेकत्वम् । 'स- रिलं सलिरं सलिलम्’ इति वाचस्पतिः ॥ ( ४ ) ॥ ॥ क- म्यते । ‘कमु कान्तौ’ (भ्वा० आ० से ० ) । वृषादिलात् ( उ० १।१०६ ) कलच् । ‘कमला श्रीर्जलं पद्मं कमलं कमलो मृगः' इति धरणिदर्शनात् ‘कमलम्' इत्येकं नाम । 'मलं क्लोन्नि भेषजे । पङ्कजे सलिले तात्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्योः' इति हेमचन्द्रः ॥ ( ५ ) ॥ * ॥ जलति । ‘जल अपवारणे' (चु० प० से ० ) पचायच् ( ३ | १ | १३४ ) । 'जलं गोकलले नीरे हीबेरेऽप्यन्यवज्जडे' इति मेदिनी ॥ ( ६ ) ॥*॥ पयते पीयते, वा । 'पय गतौ ' ( भ्वा० आ० से ० ) । १ – अत्र तु 'प्रसूरवा जनन्यपि' इत्यपि लिखितमासीत् ॥ तच न १ - बाहुलकात्पष्ठया अलुक् ॥ वाक्येनैव नामेति सर्वधरः- प्रकृतोपयुक्तम् ॥ २ – प्रवासे यथा 'आहूतस्याभिषेकाय विसृष्टस्य इति मुकुटः ॥ 'सुगममेव हि मध्यमपांपतेः" इति दर्शनात् इति वनाय च' इत्यनेकार्थ कैरवाकर कौमुदी । अत्र तु 'प्रवाहे' इति लिखि- स्वामी ॥ २ - 'आपोभिर्मार्जनं कृत्वा' इति स्मृतेः- इति मुकुट तमासीत् ॥ ३- 'समरसरसि नृत्यत्कबन्धे' इति वासवदत्तायाम् बुधमनोहरे ॥ ३ – प्रयोगश्च 'वारि पतन्ति नदन्ति मयूराः' इति 'चलितोद्धतकबन्धसंपदाः' इति माघे च प्रयोगात्-इति मुकुटः ॥ ४- पूर्वघटकर्पर: ॥ - पूर्वसाहचर्यास्त्रीत्वं वारः इति तु कलिङ्गः ॥ 'उदकशब्दसमानार्थ उदशब्दो विद्यते' । तथा च 'प्रसन्नोदम्, इत्यसंज्ञा- पूर्वोत्तरसाहचर्यात स्त्रीलीबयोवर इति तु पश्चिका इति मुकुटः ॥ यामप्युदशब्दः प्रयुज्यते' इति (६।३१५७ सूत्रे) कैयट-इति मुकुटः ॥