पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्ग:] दाक्षिणात्यव्याख्योपेतः २५ अहिः सर्प एव बुध्न्यम् आभरणं यस्य अहिर्बुध्न्यः । अष्टमु दिक्षु मूर्तिः यस्य सः अष्टमूर्तिः | महान् काल: महाकाल: । महान् नट: महानट: । महन्नटनं यस्येति वा । K2. in A, K2, W2. 33 Found (पा.) शंभुरीश:– त्र्यम्बकः । छान्दसानपि शब्दान् संज्ञा शब्दत्वाद्भाषायामपि प्रयुञ्जत इति’त्रियम्बकशब्दः प्रयोगार्ह एव । ‘ त्रियम्बकं संयमिनं ददर्श ' इति 'कालिदासः। (कु. सं. ३. ४४) नो चेत् दिवस्पतिप्रभृतिशब्दा अप्यव्यवहर्तव्याः स्युः || त्रिपुरा- न्तकः - उमापतिः । 'ईश्वरनामानि । अनुक्तम्- ‘पञ्चाननोऽर्धमकुटः कण्ठेकालो दृगायुधः । अष्टमूर्तिरयुग्माक्षो भालनेत्रोऽकुतश्चनः ॥ शैलधन्वार्धरमणिर्ज्यापिङ्गः पांसुचन्दनः । कालंजरो महाकालो रेरिहाणो' महानटः ॥ हिरण्यबाहुर्हेहीरो 'गुहाकेशोऽहिभूषणः । कटीटङ्कः कंकटिकः कटप्रूः परमेश्वरः ॥ अहिर्बुध्न्यो' जटाटीरो जटाजूटोऽग्निलोचनः ।। ' एतानि च ॥ ३१-५॥ 1 B3 omits. 5 लेलिहान: A1. 2 तेन B3, 6 गुहकेश: A1. कपर्दोऽस्य जटाजूटः पिनाकोऽजकवं धनुः । (वि.) कपर्द इति – कं शिरः पिपर्ति पूरयतीति कपर्दः । ‘पॄ पालनपूरणयोः’। शिवजटाजूटनाम । अकति' अपि नाकति न नमति इति पिनाकः । 'अक अग कुटिलायां गतौ ' । पिनह्यत इति पिनाकः । ‘णह बन्धने ' । अजस्य' कम् अस्थि तद्विकारः अजकवम् । अजगवमिति वा पाठः । अजगवोऽस्थिविकारः | शिवस्य धनुर्नामनी ॥ B1. 3 By adds कुमारसंभवे. 7 अहिर्बुध्न: B. 4 शिव° B3. 8 जटाचीर: B.. 1 पर्दयति B1, C. 2 अकति कुटिलीभवति इत्यकः । अको न भवतीति नाकः । शिवादितरैः ज्यासंधानाय न नम्यते (नमति Ba) इत्यर्थ: । पिकारोऽप्यर्थकः । पिकारेण सहित इति वा | शिवादन्यैरपि न नम्यत इति यावत् । Bg, C. 3 अजस्य इदम् अजकम् अजशृङ्गमि- । त्यर्थः । तेन अजकेन अजशृङ्गेण वर्त्यते क्रियते यत् तत् अजकवम् । तन्निर्मितमित्यर्थः | संबन्धार्थे कप्रत्ययः | C; आजगवमिति वा पाठः । अजश्व गौश्च अजगावौ । तयोर्विकारः आजगवम् | B2. (पा.) कपर्दोऽस्य – धनुः । शिवजटाजूट: कपर्दनामा । पिनाक इति अजगवं चेति तस्य धनुर्नामनी । अत्र अजगवशब्दस्य रूपान्तराण्यपि कथयन्ति ।