पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ अमरकोशः [प्रथमकाण्डः हरतीति हरः । 'हृञ् हरणे' । स्मरं हरतीति स्मरहरः । भृज्ज्यते 20 अनेनेति भर्ग: 21 | 'भ्रस्ज पाके' । सकलं बिभर्तीति वा । त्रीणि अम्बकानि लोचनानि यस्य सः त्र्यम्बकः । द्यौर्भूमिरापः तिस्रोऽम्बा” यस्येति वा । त्रयाणां ब्रह्मविष्णुरुद्राणाम् अम्बको वा । ‘अम्ब जनने' । त्रिपुराणाम् अन्तकः त्रिपुरान्तकः । गङ्गायाः धरः गङ्गाधरः । अन्धकस्य 23 रिपुः अन्धकरिपुः । क्रतुं ध्वंसयतीति ऋतुध्वंसी । 'ध्वंसु अवस्रंसने ' । वृष: ध्वजे यस्य सः वृषध्वजः । व्योमवद् 25 विकीर्णः केशो यस्य सः व्योमकेशः । व्योम आकाशः को वायुः तदादीनामीशो ” वा । सर्वमस्माद् भवतीति भवः । सर्वमस्मिन् भवतीति वा” । बिभेत्यस्माद् भीमः । 'ञिभी भये ' | 28 प्रलये तिष्ठतीति स्थाणुः। ‘ष्ठा गतिनिवृत्तौ' । रोदयति शत्रूनिति रुद्रः । 'रुदिर् अश्रुविमोचने' । ऋतं सत्यं रातीति 30 वा । ‘रा आदाने' । रुतं 1 शब्दं रायतीति वा । 'रै शब्दे ' । रुदं रोदनं द्रावयतीति वा । 'द्रु गतौ' । उमायाः पतिः उमापतिः । एतानि ईश्वरनामानि ॥ ३१-५ ॥ । 33(भस्माङ्गरागोऽस्थिधरः उग्राक्षो नागकङ्कणः ।) ( भस्म अङ्गरागो यस्य भस्माङ्गरागः । अस्थीनि धरतीति अस्थिधरः । उग्राणि अक्षीणि यस्य उग्राक्षः । नाग एव कङ्कणं यस्य नागकङ्कणः । एतानि ईशपर्यायनामानि ।) 3 जगत् 5 C, 1 C, D1, I add 'भू सत्तायाम् '. 2 सुजन ° D2; निजजन B2, C. C, D1, I, K3, K5. 4 ईष्टे ईश्वरः 'ईश ऐश्वर्ये' A, B1, C, D, K, W1; शृणातीति शर्वः, 'शू हिंसायाम् ' K1, W1; B2, K1, K2, K5, U, W2, Y add ई ईशानः D2, I, K2, K5, Y add सुखं. 6 शेखरे A, W2. C adds शिवभक्ता:. K3, U, W1, Y. 7 भूः प्राप्ताः भूता: K2, Wg; 9 गिरयोऽस्य सन्तीति वा K1, adds अलुक् । तस्य I, Kg add विष. स्त्रिया. 8 परशुर्नामासुर: B1, K3, W2. 10 गिरि वाचि शेते वसतीति वा, 'शीङ् स्वप्ने' B2, C, D1, K2; C उपनिषत्प्रतिपाद्यत्वात् इत्यर्थ:. 11 y adds सुखयतीति. 12 C, 13 काल: W23 कालकण्ठ: A; नीलकण्ठ: K1. 14 Bg, C add 15 वामभागे B2. 16 वामायाः पार्वत्याः देवो वा, वामत्वात् वक्रत्वाद्वा वामः, 17 कृशानौ B2, D2, K3, W1. 18 धूरूपा (B2 omits भारस्वरूपा) omit. 20 D1 adds संसारो; स चासौ देवश्च C. 19 K1, K3 21 We adds भञ्जयति वा. 23 अन्ध- 22 एतासां तिसृणाम् अम्बयति पूरयतीति अम्बको वा । स्वार्थे कप्रत्ययः । 'अम्ब पूरणे' C; अम्बकः पिता वा Ks. कासुरस्य C, D1, K3, U. 24 ° दक्षयज्ञं ध्वंसितुं शीलमस्यास्तीति B2, C. जटा यस्य B2, C, D1; धुर इव° W2. संसारे B1, C, K2. D2, K1, K3, Y; °र्णा: केशा: K2, W1. 26 B2 adds अग्न्यादीनां. add 'भू सत्तायाम् . 28K1, W1 add अपि; K2 adds काले. 2 lines. 30 C adds गृह्णातीति. द्रावयतीति वा B2, C. 25 विस्तीर्णः 27 D1, I 29 U omits 31 ऋतं D2, W1; रुणद्धीति रुत् अज्ञानं तत् 32 ईशानस्य A, T; शम्भु° Kg.