पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः भूतेश: खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३२ ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३३ ॥ कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः । हरः स्मरहरी भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३४ ॥ गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ।। ३५ ।। (अहिर्बुध्न्योऽष्टमूर्तिश्च गजारिश्च महानटः ।।) २३ (वि.) शंभुरिति -- शं सुखमस्माद् भवतीति शंभुः । ईष्टे इति ईशः । 6 'ईश ऐश्वर्ये' । पशूनां पतिः पशुपतिः । शेरते सज्जनमनांसि अस्मिन्निति शिवः । अन्तकाले जगती अस्मिन् शेते इति वा शिवः । 'शी स्वप्ने ' | शिवंकरत्वाद्वा शिवः | शूलमस्यास्तीति शूली । महांश्चासौ ईश्वरश्च महेश्वरः । महतां देवानाम् ईश्वरो वा । शं' करोतीति शंकरः । ‘डुकृञ् करणे' | चन्द्रः शेखर : " यस्य सः चन्द्रशेखरः । भूतानामीशः भूतेशः । 7 भूताः प्राप्ताः शिवभक्ताः तेषां ईं मायां श्यतीति वा । 'शो तनूकरणे' । परशुना खण्डयतीति खण्डपरशुः । 'खडि खड भेदने’ । खण्डः परशुः अनेनेति वा । गिरीणामीशो गिरीश: । गिरौ शेते इति गिरिश: 10 मृडतीति ] मृडः । ‘मृड सुखने' । मृत्युं जयतीति मृत्युंजयः । 'जि जये’ कृत्तिश्चर्म वासो यस्य सः कृत्तिवासाः । पिनाकोऽस्यास्तीति पिनाकी । प्रमथानाम् अधिपः प्रमथाधिपः । उत् गृह्णातीति उग्रः । ‘ग्रह उपादाने ' । उग्रत्वाद्वा उग्रः । कपर्दोऽस्यास्तीति कपर्दी । श्रीः शोभा 12 कण्ठे यस्य सः श्रीकण्ठः । शितिः 1¨मेचकः कण्ठे यस्य सः शितिकण्ठः । कपालं विभर्तीिति कपालभृत् । 'डुभृञ् धारण- पोषणयोः ' । वामः श्रेष्ठः स चासौ देवश्च वामदेवः । वामया 14 दीव्यतीति वा वामे 15 सव्ये देवी यस्येति वा । वामया युक्तो वा । वामत्वात् वक्रत्वाद्वा 16 | महांश्चा सौ देवश्च महादेवः । सर्वत्र 'दिवु क्रीडे 'त्यादि धातुः । विरूपम् अक्षि यस्य सः विरूपाक्षः । त्रीणि लोचनानि यस्य सः त्रिलोचनः । कृशानू" रेतो यस्य सः कृशानुरेताः । सर्वं जानातीति सर्वज्ञः । ‘ज्ञा अवबोधने' । धूः गङ्गा जटासु यस्य सः धूर्जट: 18 कण्ठे नीलः केशेषु लोहितः नीललोहितः । नीलश्चासौ लोहितश्च नीललोहितः 19 |