पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ अमरकोशः [प्रथमकाण्डः 9 संभावितम् । अत एव ‘परं विरोधे शेषं तु ज्ञेयं शिष्टप्रयोगत : ' (३. ५. ४६) इति शास्त्रान्ते वक्ष्यति । तद्गदा कौमोदकी स्यात् । तत्खड्ङ्गो नन्दकः स्यात् । तन्मणिः कौस्तुभ इति शब्द्यते । ‘चापं तु शार्ङ्गमुरसि वनमाला च मालिका' इति च । तद्योगात् शा वनमालीति शब्दौ व्युत्पत्तिसिद्धौ ॥ २९ ॥ 1 A1 adds स्युः . 2 पुंलिङ्गत्वं B3, B.. (चापं शार्ङ्ग मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ॥) (वि.) चापमिति - शृङ्गस्य विकारः शार्ङ्ग, मुरारे: चापस्य नाम | तस्य लाञ्छनं श्रीवत्स इति मतम् । श्रीः वक्षसि यस्येति वा । 1 Found in Da, K2. गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः । नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ ३० ॥ (वि.) गरुत्मानिति – गरुतोऽस्य सन्तीति गरुत्मान् । सर्पान् गिरतीति गरुडः । ‘गृ निगरणे’। गरुद्भिः डीयते इति वा गरुडः । ‘डीङ् विहायसा' गतौ ' । 'तृक्षस्यापत्यं पुमान् तार्क्ष्यः । विनताया अपत्यं पुमान् वैनतेयः । खगानामीश्वरः खगेश्वरः । नागानाम् अन्तको नागान्तकः। विष्णोः रथः विष्णुरथः । शोभनानि पर्णानि पक्षाः यस्य सः सुपर्णः । पन्नगा' अशनं यस्य सः पन्नगाशनः । एतानि गरुडनामानि ॥ ३० ॥ 1 सर्वान् D1, D2, T. 2 °यसां K1, O, U, Y. 4 B2, C, K5, We add 'स्त्रीभ्यो ढक् '. 6 B2, C add वाहनं. 7 पन्नगान् अनातीति । 'अश भक्षणे' B2, C. 6 3] वृक्ष्यापत्यं W1. 5 नागान् अन्तयति नाशयतीति B2, C.. (पा.) गरुत्मान् – पन्नगाशनः । गरुडनामानि | गरुत्मसौपर्णशब्दावपि विद्येते। 'विद्धद्विमुखान् भटानिवाहीन् स गरुत्मेव महेन्द्रमाप कोपात्' इति चन्द्रकाव्यम् । 1' प्रौर्णवीदथ सौपर्ण: कीर्णपर्णः फणाभृतः' इति राघवपाण्डवीयम् (द्विसं. १८.५२ ) ॥३०॥ 16 1' जीर्णवीवधसौपर्ण कीर्णपर्णफणाभृतः' MSS. शुंभुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ३१ ॥