पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [ प्रथमकाण्ड: 2 'स्थाणोर्धनुश्चाजगवम्' इति नाममाला । 'अजगावमजीगावम्' इति वैजयन्ती (पृ. ७, श्लो. ५०) । २६ 1 कपर्द इति ईश्वरजटाजूटनाम A1. (पृ. ७, श्लो. ५०). 2 आजगावं Br; अजीगवमिति मुद्रितग्रन्थे प्रमथाः स्युः पारिषदा ब्राह्मीत्याद्यास्तु मातरः ।। ३६ ।। (वि.) प्रमथा इति – प्रमनन्ति शत्रूनिति प्रमथाः । 'मन्थ विलोडने’ | परिषदि’ साधवः पारिषदाः | ईश्वरस्य सभ्यनामानि | मान्ति वरिवस्यामिति मातरः । ' मा माने' । 'माङ् माने' इति वा धातुः । मानं वर्तनम् | शिवपरिचर्याकारिणीनां ब्राह्मादीनां नामानि । 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा सप्त मातरः || ' ब्रह्मणः संबन्धिनी ब्राह्मी । महेश्वरस्य संबन्धिनी माहेश्वरी । कुमारस्य संबन्धिनी कौमारी।. विष्णोरियं वैष्णवी । वराहस्य संबन्धिनी वाराही । महेन्द्रस्य संबन्धिनी माहेन्द्री । चामुण्डा इति सप्त मातरः ॥ ३६ ।। 1 ब्राह्मी माहेश्वरी द्राणी' वाराही वैष्णवी तथा । कौमारी चर्ममुण्डा च कालसंहारिणीति च ॥ B, C, W1, Y. Kg, W1. D2, K1, W1, Y. 2 चैन्द्री Da, I, 3 ° संकर्षिणीति च D2, I, K2; derivations of ब्राह्मी, etc. omitted in. (पा.) प्रमथाः – मातरः । प्रमथा इतीश्वरदासनाम | अनुक्तम् – 'भूतलोक भूतानि '। भूतानां नामनी । 'कापिशेयाः पिशाचकाः' । गुरुनाथ | दितत्सहचरपिशाच- नाम ॥ अनुक्तम्- 'ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डा सप्त मातरः ॥' ब्राह्मीप्रभृतयः सप्त मातरः स्युः | 'ब्रह्माण्यार्या स्मृताः सप्त मातरो देवता बुधैः इत्यभिधानात् ब्राह्मी ब्रह्माणीति च नाम भवति । ' चण्डमुण्डा तु चामुण्डा चर्चा मार्जारकन्यका' इत्यभिधानात् चामुण्डा चण्डमुण्डा च भवति ॥ ३६ ॥ 1 Bg adds ‘सतमातृकलु'. 2 A1 adds 'पोलकम्म'.