पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] द।क्षिणात्यव्याख्योपेतः विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा । (वि.) विभूतिरिति — विभवतीति विभूतिः भूतिश्च | ईश्वरस्य भावः कर्म वा ऐश्वर्यम् । अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यम् ईशिता वशित्वं चेति ऐश्वर्याष्टकमुच्यते । इत्यणिमाद्यष्ठैश्वर्यनामानि । 1 विशेषेण भवतीति विभूतिः, 'भू सत्तायाम्' C. 2 अणिमा लघिमा प्राप्ति: गरिमा महिमेशिता । प्राकाम्यं वशिता चेति चैश्वर्याष्टकमुच्यते ॥ B, C, D,. 3 प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतय: Kg. (पा.) विभूतिः - अष्टधा । विभूत्यादीनि ऐश्वर्यनामानि । विभूतिभूतिशब्द क्तिन्नन्तत्वात् स्त्रीलिङ्गौ । ऐश्वर्यशव्दः ष्यञन्तत्वान्नपुंसकः । अणिमादिभेदेन तदेवाष्ट- विधम् । 'अणिमा महिमा चैव गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः || ' २७. उमा कात्यायनी गौरी काली हैमवतीश्वरी ॥ ३७ ॥ शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥ ३८ ॥ (आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा । सती च कालरात्री च भैरवी गणनायिका ॥) (वि.) उमेति – अवतीति उमा । 'अव रक्षणे ' । 'तपसः उ मेति मात्रा निषिद्धा वा उमा । कति अयनानि सन्तीति विचारयतीति कत्ययनः तस्य गोत्रापत्यं स्त्री कात्यायनी । गौरवर्णत्वाद् गौरी । तपसे 'गुरते इति गौरी । 'गुरी 'उद्यमने' । कालवर्णत्वात् काली । हिमवतोऽपत्यं स्त्री हैमवती । ईश्वरस्य पत्नी ईश्वरी । ईष्टे इति वा ईश्वरा । अयमपि पाठः । शिवं मङ्गलमस्या अस्तीति शिवा | शिवस्य पत्नी वा । तथा भवस्य 'स्त्री भवानी । तथा रुद्राणीशर्वाणीशब्दौ । सर्वतो मङ्गलं 'यस्याः सा सर्वमङ्गला | अपगतम् ऋणं पितुर्यस्याः स| अपर्णा । 'तप काले अपगतानि' पर्णानि यतः अपर्णा। तपसि 1 हरार्थं पर्णमपि नैच्छदित्यपर्णा । पर्वतस्य पुत्री पार्वती । दुःखेन गम्यते इति दुर्गा | दुर्गे निवासोऽस्या अस्तीति वा । मृडस्य पत्नी मृडानी । चण्डत इति.