पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः २८ चण्डिका 2। ‘चडि कोपे' । चण्डासुरमर्दनाद्वा 13 | अम्बतें 14 जनयति सर्वमिति अम्बिका । ' अम्ब जनने' । एतानि पार्वतीनामानि ॥ ३७-८ ॥ 2 ऋषि: 4 उद्यमे D2, K2, K5, U, Y. 1 तपसः, उ अयि मा मास्तु, इति मात्रा मेनकया निषिद्धा वा B2, C. कश्चित् C. आगुरते K1, T; अवगुरते W.. 3 .5 शिवंकरत्वाद्वा B2, C. 6 पत्नी B1, C, D, W1. 7 यया सा K3, U, W1. 8 तपश्चरकाले D2. 9 अपगतानि आगाभिसंचितप्रारब्धरूपाणि ॠणानि यस्याः सा अपर्णा 11 गभ्या Kg; I "B2, C. 10 आहारार्थं D1; K1, W1, Y omit तप... र्णा. adds 'गम्ल सृप्ल, गतौ . 12 W2 adds चण्डी. 14 °जनं सूते सर्व Y. 13 मथनत्वाद्वा W2. (पा.) उमा– अम्बिका | ईश्वरीत्यत्र गौरादिपाठात् ङीष् । पक्षे टाप् | ‘कर्बुरी ‘चेश्वरेश्वरी’ इति त्रिकाण्डशेष: (पृ. ३ श्लो. ५५) । पार्वतीनामानि । अनुक्तम्- 'बर्हिर्ध्वजा महाकाली रक्तदन्त्येकपाटला । दाक्षायणी महादेवी कौशिकी मेनकात्मजा ॥ कालरात्रिर्भगवती गिरिजा शारदा च सौः || ' एतानि च । सौः सवौ सवः । सवं सवौ सवः । 'द्योगवद्विभक्तौ ' इति कातन्त्रसूत्र- नियमात् गोशब्दवत् णित्कार्यं न भवति ॥ ३७-८॥ विनायको विघ्नराजद्वैमातुरगणाधिपाः । अध्येकदन्तहेरम्बलम्बोदरगजाननाः ।। ३९ ।। (वि.) विनायक इति — विगतो नायको नियन्ता यस्य सः विनायकः । विनयति शिक्षयति दुष्टानिति वा । 'णीञ् प्रापणे ' । विघ्नानां राजा विघ्नराज: । द्वयोर्मात्रोः उमागङ्गयोरपत्यं द्वैमातुरः । गणानाम् अधिप: गणाधिपः । एको दन्तो यस्य सः एकदन्तः । हिरते वर्धयति नेतृन हेरम्बः । 'हिर वृद्धौ ' । हे रम्बते शब्दायते वा हेरम्बः' । हेरम्बशब्दं करोतीति वा । लम्बम् उदरं यस्य सः लम्बोदरः । गजस्येव आननं ' यस्य सः गजाननः । एतानि विघ्नेश्वरनामानि ॥ ३९ ॥ 1 प्रभु: K1, K3, Ks; नेता B1, C, W2, Y. 22 B1, C, K5, W2 add ' राजाह:- सखिभ्यष्टच् '. 3 देशीपदप्रायं तु मन्महे W2, Y; अथवा बालयोः विनायकगुहयोरन्योन्थं क्रीडासमये संभवति युद्धे विनायकोदरे प्रहरतो गुहस्य षटूछिरार्भकस्य एकतो मिलित्वा प्रकुप्य शिवमञ्चमवलम्ब्य निलीनं विनायकं प्रति रोदनवशात् आक्रोशन् गुहस्तातं प्रति हे तात विनायको