पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः मां प्रहृत्य मञ्चे लम्बते इति निवेदयामास । तदाप्रमृति हेरम्भ इति सर्वेऽप्याचक्षत ब्रह्माण्डपुराणे प्रसिद्धम् । तस्मात् हेरम्ब: C. 4 आननमिवाननं C, D2. (पा.) विनायको – गजाननाः । विनायकनामानि ॥ ३९ ॥ कार्त्तिकेयो महासेनः शरजन्मा षडाननः । पार्वतीनन्दनः स्कन्दः सेनानीरनिभूर्गुहः ॥ ४० ॥ बाहुलेयस्तारकजिद् विशाखः शिखिवाहनः । षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ ४१ ॥ (भृङ्गी भृङ्गिरिटस्तण्डुनन्दिनौ नन्दिकेश्वरे | कर्णमोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका ॥) (वि.) कार्त्तिकेय इति कृत्तिकानामपत्यं कार्त्तिकेयः । महती सेना यस्य सः महासेनः । शरराख्यतृणे जन्म यस्य शरजन्मा । षड् आननानि यस्य षडाननः । पार्वत्या नन्दनः पार्वतीनन्दनः । ईश्वरस्य रेतसः स्कन्दतीति स्कन्दः । शत्रून् स्कन्दति शोषयतीति वा । 'स्कन्दिर् गतिशोषणयोः' । सेनां नयतीति सेनानीः । “णीञ् प्रापणे ' । अग्नेर्भवतीति अग्निभूः । 'भू सत्तायाम्' । परायुधेभ्यः सेनां गृहतीति गुहः । ‘गुहू संवरणे'। बहुलानां कृत्तिकानाम् अपत्यं पुमान् वाहुलेयः | तारकासुरं जीत तारकजित् । ‘जि ‘जये' । विशाखासु ' ' भवतीति विशाखः । विना [पक्षिणा] मयूरेण शाखतीति' वा विशाखः । 'शाख व्याप्तौ ' । शिखी वाहनं यस्य सः शिखिवाहनः । घण्मातॄणामपत्यं षाण्मातुरः । शक्तेर्धरः, शक्ति 'वारयतीति वा शक्तिधरः | ‘धृञ् धारणे' | 10 कुत्सितं मारयतीति कुमारः । कौ पृथिव्यां मां श्रियं रातीति वा । कुमारयति शिखिना वा । 'कुमार क्रीडायाम् ' । सदा ब्रह्मचारित्वाद्वा कुमारः । क्रौञ्चगिरिंदारयतीति" क्रौञ्चारण | 'दृ विदारणे'। एतानि 1`कुमारनामानि ।। ४०-१।। 1 शरे जले जन्म Di, I. 4 अभिभवे I, K1, W1. विशाखसंभव: K1. 3 ईकारान्त: Bg, C. 6 भव: D1, I, Kg, W1; पण्णाम् K1, Ks, We. 10 कुत्सितं भयंकरं यथा भवति तथा शत्रून् मारयति । 'मृङ् प्राणत्यागे' C. 12 कुमारस्वामि° Da, I, Ki, K3, W1; स्वामिनां A. 5 B2, C add नक्षत्रेषु. 7Bg, C, D1, I add व्याप्नोतीति. 8 २९ इति 2 रेतसा W1; रेतसि Kg. 9 धरति B2, C. 11 B, C add खण्डयति.