पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३० अमरकोशः (पा.) कार्त्तिकेयो– क्रौञ्चदारणः । कार्त्तिकेयनामानि । अनुक्तम्– सुब्रह्मण्यो ब्रह्मगर्भो नीलदंष्ट्रो हररात्मजः । स्वामी शरेज : शरजो गाङ्गेयः कुक्कुटध्वजः ॥ एतानि च ॥ ४०-१॥ 1 जलेज: A1. [प्रथमकाण्डः इन्द्रो मरुत्वान् मघवा बिडौजा: पाकशासनः । वृद्धश्रवाः शुनासीरः पुरुहूतः पुरंदरः ॥ ४२ ॥ जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः । सुत्रामा गोत्रमिद् वज्री वासवो वृत्रहा वृषा ॥ ४३ ॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । जम्मभेदी हरिहयः खारण्नमुचिसूदनः ॥ ४४ ॥ संक्रन्दनो दुश्च्यवनस्तुराषाणमेघवाहनः । आखण्डलः सहस्त्राक्ष ऋभुक्षाः (वि.) इन्द्र_इति — इन्दतीति इन्द्रः' । 'इदि परमैश्वर्ये' । मरुतः अस्य सन्तीति मरुत्वान् । माते मघवान्' । 'मह पूजायाम्' । मघः 'सौख्यमस्य ।स्तीति मघवा । बेडति इति बिडम् । 'बिड आक्रोशे' । ' बिड भेदने' । बिडं शत्रुतापनम् आक्रोशनं वा 'तेजोऽस्य बिडौजा: । पाको नामासुरः तं शास्तीति पाकशासनः । 'शासु 'अनुशिष्टौ' । पाकं दितिगर्भ वा शास्तीति पाकशासनः । वृद्धेभ्यः श्रवः श्रवणं यस्य वृद्धश्रवाः । वृद्धं श्रवः कीतियस्येति वा । वृद्ध इति श्रूयते वा । 'श्रु श्रवणे' । शुनन्तीति 'शुना: । 'शुन गतौ' । शुनाः सीरा: लाङ्गलानि येन साधनेन शुनासीरः । शुनाः समृद्धाः सीरा येनेति वा । वायुसूर्यौ अस्य स्त इति वा । शु शोभनाः नासीरा अग्रेसरा यस्येति वा शुनासीरः । पुरु भूयिष्ठ हूयते यज्ञेषु पुरुहूतः । पुरं शत्रोः शरीरं पुरं वा दारयतीति पुरंदरः । 'वर' | जयतीति जिष्णु: । लेखानां देवानाम् ऋषभः श्रेष्ठः लेखर्षभः । शक्नोति दुष्टजये इति शक्रः । 'शक्ल शक्तौ' । शतं मन्यवः क्रतबो यस्य सः शतमन्युः । दिवः स्वर्गस्य पतिः दिवस्पतिः । सुष्टुत्रायते इति • सुत्रामा । 'त्रैड् पालने' । शोभनं त्राम बलं यस्येति वा । गोत्रान् 'गिरीन्