पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्ग:] दाक्षिणात्यव्याख्योपेतः ३१ भिनत्तीति गोत्रभित्। ' भिदिर विदारणे' 10 || 11 वज्रोऽस्यास्तीति वज्री | वसूनामयं स्वामी वासवः । वसून्यस्य सन्तीति वा । वृत्रं हतवान् वृत्रहा । 'हन हिंसागत्योः’। वर्षतीति वृषा । नकारान्तः । 'वृष सेचने' । वास्तोः गृहदेवतायाः पतिः वास्तोष्पतिः । सुराणां पतिः सुरपतिः । 14 बलस्यारातिः वलारातिः । शच्याः पतिः शचीपतिः । जम्भम् असुरं भिनत्तीति जम्भभेदी । 'भिदिर् 16 विदारणे'। "हरयो हरितो हया यस्य हरिहयः। स्वः स्वर्गे राजतीति स्वाराट् । 'राजू दीप्तौ' | 'नमुचिं सूदयतीति नमुचिसूदनः। ‘षूद क्षरणे' । संक्रन्दं नयति शत्रून् 19संक्रन्दनः । 'ऋदि आह्वाने रोदने च' । दुःखेन च्योतितुं शक्यः दुश्च्यवनः । 'च्युतिर् 20 क्षरणे' । शत्रूणां तुरं 21 त्वरितं सहते तुराषाट् । 'षह मर्षणे' । मेघो वाहनं यस्य मेघवाहनः । आखण्ड- यति रिपून् इ त्याखण्डलः । 'खडि 22 भेदने' | सहस्रम् अक्षीणि यस्य सः सहस्राक्षः । इयर्तीति ऋभुक्षाः”। ‘ऋ गतौ' । ऋभून् देवान् क्षिपति कर्मसु इति वा ऋभुक्षाः । नकारान्तः । 'क्षिप प्रेरणे' 24 । एतानि इन्द्रनामानि ॥ ४२ ५ ॥ 1 यद्वा इदंकारासदघटादिवत् इम् इदं सर्वे द्राति साक्षात्करोतीति इन्द्रः । 'द्रु गतौ ' । गतिशब्दस्तु ज्ञानात्मक: C. 2 मघवा K1, K3, Ks, V1; मह्यते पूज्यते इति महः । हकारस्य घश्च आदेश: । मघः अस्यास्तीति मघवान् B2, C. 3 सौम्यं A. 4 ओजो B1, D1, W1; बलं C; बिडं शत्रुसमुत्क्रोशनं ओज: W2. भेदयतीति वा B2, C, D2; पाकं गजेन्द्रं वा W2. 5 दितिगर्भे पाकं शिशुं शास्ति 6 ' शुन गतिसमृद्धयोः' । अथवा शुनाः 7 पट्टणं 9 पर्वतान् C. 12 हन्तीति आसीराः येषां ते । ते च वायुसूर्यापः । तेऽस्य वशे तिष्ठन्तीति शुनासीर: Bg, C. चा B1, C, D1, W1, Y. 8 C, D1, I add 'जि जये'. 10 'द्वैधीकरणे' A, B1, C, K2, Ks, T. 11 वज्रं B1, C, Wo. 13 वास्तुपुरुषस्य B2, C. 16' द्वैधीकरणे' A, B1, C, T, Wi. 18 ऋणं न मुञ्चतीति नमुचि: A, Dg, K1, W1. B1, C, K3, U, W2. 15 C adds हिनस्ति श्रयामा: C. 14 बलासुरस्य B2, C. 17 हरिवर्णाः A; 19 संक्रन्दयतीति 21 तुदनं ( तोदनं ) आ समन्तात् सहते D2, K1, K5, Wi. 20 स्रंसने C, K 2. तुराषाट् C. 22 ‘ खण्डने’ D2, K2, Y. 23 इयतिं व्याप्नोतीति च भवतीति च क्षमते इति च धातुत्रयेण निष्पन्न: ऋभुक्षाः । 'ऋ गतौ, भू सत्तायाम् क्षम सहने' | अथवा ऋभु अमोघं, क्षिप्यते इति क्षः, तत् किं, धनुरित्यर्थ: । अमोघं धनुर्यस्येति ऋभुक्षा: C. 24 K2, K5, W‡add उग्रधन्वा च. (पा.) इन्द्रो मरुत्वान्, मघवान्– मघवा इत्युभयथा पाठः । पूर्वस्यो- दाहारणम् –‘स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः' । (रघु. ९.१९) अपरस्योदाहरणम् – 'जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । (मेघ. १.६) वृद्धश्रवाः शुनासीरः । 'शक्र इव नाकविख्यातसुनासीर : ' इत्याश्चर्यमञ्जरी श्लेषाद् दन्त्यः ।