पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ अमरकोशः 6 ' गुर्वी वहन् सदानवलक्ष्यीकृत्वाङ्गदांशुन शीरेण । अनुवनिताञ्जलिमुकुलं लक्ष्यीकृत्वाङ्गदां शुनासीरेण ॥ ' इति हरिप्रबोधयमकात् तालव्यादिः । पुरुहूतः – हरिहयः । ‘प्रायो रूढिर्बलवती' इति न्यायेन शतमन्युशब्दस।म्यात् शतमखादिशब्दाः प्रयोक्तव्या ' इति हरिहयशब्दसाम्याद् हर्यश्वादिशब्दाश्च प्रयोक्तव्यान भवन्ति । हरिवाहनशब्दः प्रयोक्तव्यो भवति । स्वाराट् — ऋभुक्षाः । 'सहे: साडः सः ' (८. ३. ५६) इति साडूपे षत्वम् । तुरासाहौ तुरासाहः । ‘पृतनाषाट्-शब्दस्याप्ययमेव क्रमः । 'हल्ङयाब्भ्यो दीर्घात्' इति (६. १. ६८) हलाश्रितत्वात् स्थान्यतिदेशो न । इन्द्रनामानि || अनुक्तम्- प्राचीनबर्हिर्मेषाण्डो महेन्द्रः सितकुञ्जरः । पूतक्रतुः पुलोमारिल्मिरप्सरसां पतिः । पुरदंस उग्रधन्वा हरिवान् वज्रदक्षिणः || एतानि च ॥ ४२५ ।। [प्रथमकाण्ड: 1°मञ्जु° A1. 2 न्यायो बलवान् A1. 3 इव A1. 4 एवं पृतनाशब्देऽपि Ba, B4- तस्य तु प्रिया ॥ ४५ ॥ पुलोमजा शचीन्द्राणी नगरी त्वमरावती | हृय • उच्चैश्रवाः सूतो मातलिर्नन्दनं वनम् ॥ ४६ ॥ स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ ४७ ॥ ह्लादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ ४८ ॥ (वि.) पुलोमजेति - पुरूणि लोमानि यस्य सः पुलोमा । तस्मात् पुलोम्नः इति पुलोमा । 'जनी प्रादुर्भावे' । शञ्चते हंसवत् गच्छतीति गतौ' । इन्द्रस्य पत्नी इन्द्राणी । इन्द्रभार्यानामानि ॥ 4 अमरा जायत शची । 'शञ्च अत्र 'वसन्तीति अमरावती । इन्द्रनगरीनाम ॥ उच्चैः श्रवः कीर्तिः यस्य सः 1