पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः ३३ उच्चैःश्रवाः । ॰उच्चैः उन्नते श्रवसी यस्येति वा । इन्द्रहयनाम ॥ मतानि सूत- कर्मणि लाति गृह्णातीति मतलः । तस्यापत्यं 'मातलि: । 'ला आदाने' । इन्द्र- सारथिनाम || नन्दयतीति नन्दनम् । 'टुनदि समृद्धौ' | इन्द्रवननाम | विजयन्तस्य इन्द्रस्य अयं 10 वैजयन्तः । तत्प्रासादनाम ॥ जयति शत्रूनिति जयन्तः । रूपेण वा सर्वान् जयति अभिभवति जयन्त: 12 | पाकशासनस्यापत्यं पाकशासनिः । इन्द्रपुत्रनामानि ॥ इरा आपः यत्र वसन्ति स इरावान् सिन्धु: 14 । तत्र जातः ऐरावतः । अभ्रे मातङ्ग इव खेचरत्वात् अभ्रमातङ्ग: 15। इरा हाला तत्प्रधानं वनम् इरावणम् तत्र जात: ऐरावण: 16 | अभ्रमोः वल्लभः अभ्रमुवल्लभः । इन्द्रराजनामानि ॥ हादो 17 ध्वनिः अस्या अस्तीति ह्रादिनी । ह्रादुनीति वा पाठः । वजति शीघ्रं गच्छतीति वज्रम् । 'वज व्रज गतौ ' । कुल्यते संतन्यते कीर्तिरनेनेति कुलिशम् । 'कुल संताने' । कुं पृथिवीं 18 लेशयतीति वा । 'लिश अल्पीभावे ' । कुलिन: 1 9 पर्वतान् श्यतीति वा । 'शो तनूकरणे' । कुलिश- वज्रशब्दौ अस्त्रियौ । भिनत्ति ताच्छील्येनेति भिदुरम् । पुनाति वैरमिति पविः। ‘पूञ् पवने ' । शतं कोटयो20 यस्य शतकोटि: । स्वरतीति परान् स्वरुः । ' उपतापे ' । शमयति शत्रूनिति 21 शम्बः । 'शमु उपशमने' । शत्रुं दनोतीति दम्भोलि: । 'दम्भु' हिंसायाम् ' । अनाति शत्रुजीवितम् ” अश्नुते” वा अशनिः । 'अश भोजने' । 'अशू व्याप्तौ' । अशनीति वा पाठः स्त्रीलिङ्गपक्षे । एतानि वज्रनामानि ” ॥ ४६-८ ।। " 2 शचते C, D2, Ks, W1, Y; शं सुर्ख 4 B1, U add इन्द्रय. 5 सन्ति 8 °वाहन A, Y. 7 A, B, C add श्रोत्रे. 'अत इञ्' B1, C. 10 विजयतः इन्द्रस्यायं 12 ‘ जि जये’ C ; D1 adds 'जि अभिभवे . 15 आतमेव आतङ्कः । भ्रमश्च आतं च भ्रमाते । अभ्रमातङ्गः । 'गम्ल गतौ' C; भ्रमातङ्गात् 16 आ समन्ताद्विद्यमानं वनम् आवनम्, ऐरं च 17 अहंकार: B2, C. तत् आवनं च ऐरावणं क्षीरसमुद्रः, तत्र जातः ऐरावण: B2, C. 18 पृथ्वीं K1, W1. 19 कु: भूमिः तत्र लीयन्त इति कुल्यः । ईकारान्तः । पर्वता इत्यर्थः । तान् श्यतीति C. 20 C adds अग्राणि. 21 शत्रु शमयित्वा स्वपक्षं वहतीति शंवः । वबयोरभेद: । 'शम उपरमे', 'वह प्रापणे' C, K1, I, U. 22 °जनं B2, K1, K3- 23 C adds व्याप्नोति. 24 वज्रायुध° Bg, D2. 1 जात B2, C, D2, K2, W1. चिनोतीति शची C. D1. 6 B1, C, T omit. 9 ° लाति ताडयति अश्वान् । ‘ला ताडने ' वैजयन्तः B1, C. 13 नामनी B2, C. 11 रोषेण W2. 14 समुद्र: C. ते गच्छतीति भ्रमातङ्गः । स न भवतीति अन्यः अभ्रमातङ्ग: B2; श्वेताभ्रवद्वा K2. 3° पत्नी° A, K2, T. (पा.) तस्य तु प्रिया — इन्द्राणी । तत्प्रियानामानि । ‘मघोनी जयवाहिनी’। एते च । महेन्द्राणीति पाठान्तरम् ॥ नगरी त्वमरावती । पुरनाम । अमरा इत्यप्यस्ति । 'दूर्वामरावतीस्थूणागुडूचीष्वमरा मता' इति विश्वप्रकाशिका (पृ. १३३, 3