पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः ३४ श्लो. ९४) । हय उच्चैःश्रवाः । तदश्वनाम |॥ सूतो मातलि: । इन्द्रसारथिनाम । ' सारथिस्तु हयंकषः' इति रभसकोशपाठात् हयंकषोऽपि स्यात् ॥ नन्दनं वनम् । तत्क्रीडावनं॰ नन्दनम्॥ स्यात् प्रासादो वैजयन्तः । तत्प्रासादनाम | तच्च सप्तभूमिका- भवनम् । तस्य ध्वजोऽपि वैजयन्तः स्यात् । 'प्रासादो वैजयन्तोऽस्य वैजयन्तो ध्वजोऽपि च' इति वैजयन्ती (पृ. ९, श्लो. ९) । जयन्तः पाकशासनिः । तत्तनयनामनी ॥ ऐरावतो- अभ्रमुवल्लभाः। तदारोहणगजनामानि । 'राथन्तरिश्चतुर्दन्तः । एते च ॥ हादिनी- द्वयोः । 'वज्रायुधनामानि । वज्रमस्त्री स्यात् कुलिशमिति संदष्टविशेषविधिः । पविः शतकोटि: स्वरुः शम्बो दम्भोलिरिति 'परापरसाहचर्यम् । उभयत्र वैजयन्ती - (पृ. १०, लो. १३) ‘अस्त्रियौ वज्रकुलिशौ भिदुरं शतधारकम् । व्याधामः पुंसि दम्भोलिः शतकोटि: पविर्भिदुः ॥ अशनिर्द्वयोरित्यसंघातपक्षे विशेषविधिः । संघातपक्षे पुंलिङ्ग एव । 'वज्राश निर्भि- दुर्वत्रम् 10 ' इति त्रिकाण्डशेष: (पृ. ४, श्लो. ६५) । 'वज्राश निर्गिरिकटः पविर्दम्भोलि - रक्षजम्' इति रभसकोशः । अत्र स्वरुशब्दं विना सर्वे शब्दास्तालव्याः | शम्बशब्द- स्तालव्यो दन्त्यश्च भवति । 9 6 'तालव्या अपि दन्त्याः स्युः शम्बशूकरपांशवः 11 । कलश: शम्बलं चैव जिह्वायां रसना च या ' ॥ 9 इत्यूष्मभेदपाठात् ।। ४६-८॥ 1 पत्नी B3. A1. 5 B3 omits इन्द्र. omits परापर. 9 व्याधाव: B3. 3 स्मृता B3, B4. 4 तदारोहणहय तद्वननाम B3. 7 A1 adds तद्गृहीत. 8 B3 10 मिंद्र इति मुद्रितग्रन्थे. 11 ° सूकरपांसव: A1. 2 A, adds अमरकोशे. 6 व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात् सुधर्मा देवसभा पीयूषममृतं सुधा । ४९ ॥ (वि.) व्योमेति – व्योम्नि यानं व्योमयानम् । विमान्ति वर्तन्ते देवा अत्र विमानम्±। ‘माङ् माने वर्तने च' । विमाननाम | सुराणाम् ऋषयः सुरर्षयः । नारं नरसमूहं द्यतीति नारदः । नारदादिदेवर्षिनाम ॥ शोभनो धर्मोऽत्र सुधर्मा । नकारान्तोऽप्यस्ति । दे॒वसभानाम | पीयते इति पीयूषम् । 'पीङ् पाने'। न मृता