पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] भवन्त्यनेनेत्यमृतम् । सुष्टु अमृतनामानि ॥ ४९ ॥ दाक्षिणात्यव्याख्योपेतः 'धयन्त्येनां सुधा । 'धेट् पाने' (समुद्रनवनीतं देश्याम् ) 2 विमातीति B2, C. 5 °सुर° W.. 1C adds विद्यमानं. 4 दाति भेदयतीति ‘दा अवखण्डने' C, I. 7 B2, C add पिचन्ति; सुखेन धीयते सुधा D2. 3 B1 omits 3 words. 6 आकारान्तः स्त्रियां Y. (पा.) व्योमयानं विमानोऽस्त्री । विमाननामनी ॥ नारदाद्याः – देवसभा । देवसभा सुधर्मा स्यात् । 'सुधर्मामिव स्वच्छन्दकौशिकां विन्ध्याटवीं विवेश' इति वासवदत्ता | संज्ञाशब्दत्वाद् 'धर्मादनिच केवलात्' इति (५. ४. १२४) अनिच न भवति ॥ पीयूषममृतं सुधा । अमृतनामानि ॥ ४९ ॥ 1 याननामनी B3. मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका । मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ५० ।। पञ्चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५१ ॥ (वि.) मन्दाकिनीति – मन्दम् अकति मन्दाकिनी । 'अक अग कुटिलायां गतौ’। वियति 'गङ्गा वियगङ्गा । 'स्वः स्वर्गे नदी स्वर्णदी। सुराणां दीर्घिका सुरदीर्घिका । मन्दाकिनीनामानि ॥ मिनोति शिखरैः ज्योतींपीति मेरुः' । 'डुमिञ् प्रक्षेपणे'। सुष्ठु मिनोतीति सुमेरुः। हृय्यते हेम । 'हय्य गतिकान्त्योः' । हेम्न्नोऽद्रिः हेमाद्रिः । रत्नानि सानुषु यस्य रत्नसानुः। सुराणाम् आलयः सुरालय: । 'मेरुनामानि ॥ मन्द्यते स्तूयते मन्दारः । ‘मदि स्तुतिमोदमदस्वप्न कान्तिगतिषु' । मन्दा आरा अस्येति वा मन्दारः । पारम् उदकमस्यास्तीति पारी समुद्रः । तस्मात् जातः पारिजातः । संतनोति वाञ्छितं संतानः । 'तनु विस्तारे' । कल्पयति वाञ्छितं कल्पः, स चासौ वृक्षश्च कल्पवृक्षः। ‘क्लृपि 'सामर्थ्य' । हरेरिन्द्रस्य चन्दनं हरिचन्दनम् । एतानि पञ्च 10 देवतरु- नामानि ॥ ५०-१॥ 1B2, C add विद्यमाना. 2 A, K1, T, U omit. ' मीनाति हिनस्ति असुरानिति मेरुः । 'मीञ् हिंसायाम्' D..

  • मेरुगिरि° B1, C, D1, K1, K5, Wi, Y.

3 आकाशगङ्गा° D1. 5 रत्नमया: सानव: D.. 7 पारिण: पारावत: (?) समुद्रात् जात: D;