पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२० अमरकोशः 6 ' इः कायजो जराभारुः कन्तुः सुरभिसायकः । संकल्पजन्मा शृङ्गारयोनिगूढाशयेशयः ॥ पुष्पायुधः पुष्पकेतुर्भावजो विषमायुधः । पञ्चायुधो मधुसखः श्रीसूनुर्मधुसारथिः ॥ वीरधन्वा स्वादुधन्वा स्मृतिभूरिक्षुसायकः ।! ' एतानि च ।। २५-६॥ 1 विशारदाः A1, B4. 2 गूर° A1. 3 A1 adds २१. ब्रह्मसूऋश्यकेतुः स्यादनिरुद्ध उषापतिः ॥ २७ ॥ (वि.) ब्रह्मेति – ब्रह्म ज्ञानं सूते ब्रह्मसूः । 'षूञ् प्राणिप्रसवे'। ऋश्यो मृगः केतौ यस्य सः ऋश्यकेतुः । न निरुध्यत इति अनिरुद्ध: । 'रुधिर् आवरणे' । उषायाः पतिः उषापतिः । एतानि प्रद्युम्नपुत्रनामानि । ' ( अरविन्दमिति अशोक मिति नवमल्लिकेति चूतमिति नीलोत्पलमिति ते पञ्चापि मन्मथस्य सायकनामानि | [प्रथमकाण्ड: अरविन्दमशोकं च चूतं च नवमल्लिका | नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः || 'हृच्छयः कामजश्चैत्रसखः शृङ्गारयोनिजः ।) इति ॥ २७ ॥ 1 सूयते U. 2 अनिरुद्ध° B2, C, W1. 3 K₂ adds. 4 हृच्छय: चैत्रसख: शृङ्गारयोनिः U, W1; K2 adds श्रियः पुत्रः श्रीपुत्रः, शूर्पकस्य अरातिः. (पा.) ब्रह्मसूर्विश्वकेतुः – उषापतिः । कामपुत्रनामानि । 'क्लेदन्ती स्मरवल्लभा ‘ब्रह्मसूर्विश्वकेतुः स्यात्’ इति रभसकोशपाठाद् ब्रह्मसूशब्दः कामपुत्रपर्यायः ॥ २७ ॥ लक्ष्मी: पद्मालया पद्मा कमला श्रीर्हरिप्रिया । ('इन्दिरा लोकमाता मा क्षीरोदतनया रमा) ।। २८ ।। 93 (वि.) लक्ष्मीरिति – लक्ष्यत इति लक्ष्मी: ' । 'लक्ष दर्शनाङ्कनयोः’। पद्मम् आलयं यस्याः सा पद्मालया । पद्यत इति पद्मा । 'पट्ट सेवायाम् ' 3 | पद्ममस्या अस्तीति वा । काम्यत' इति कमला । 'कमु कान्तौ' । श्रीयत इति श्रीः, 6 श्रयत इति वा। ‘श्रिञ् सेवायाम् ' । हरेः प्रिया हरिप्रिया । इन्दि? रातीति इन्दिरा । ‘इदि परमैश्वर्ये’। ‘रा दाने' । लोकानां माता लोकमाता । मा च । क्षीराब्धेस्तनया क्षीराब्धितनया । रमयतीति रमा । 'रमु क्रीडायाम्' ।