पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दाक्षिणात्यव्याख्योपेतः मदनो मन्मथ मारः प्रद्युम्नो मीनकेतनः ॥ २५ ॥ कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः । शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ॥ २६ ॥ पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः | १. स्वर्गवर्गः] (वि.) मदनेति - मदयतीति मदनः । 'मदी हर्षग्लेपनयोः’1 । मनो’ मनातीति मन्मथ: । 'मन्थ' विलोडने' | वियुक्ता' अनेन म्रियन्ते मारः । 'मृङ् प्राणत्यागे । प्रकृष्टं द्युम्नं वलम् अस्यास्तीति प्रद्युम्नः । मीन: "केतने यस्य सः मीनकेतनः । मीनशब्दः 'जलचरोपलक्षणम् । कं कुत्सितेऽव्ययम् । कं कुत्सितः दर्पः यस्य सः कंदर्पः । दर्पं बलं करोतीति दर्पकः' । न 'विद्यते 10 अङ्गं यस्य सः अनङ्गः । कामयते अनेन कामः । ‘कमु ए कान्तौ' । पञ्च शरा यस्य सः पञ्चशरः । स्मरन्त्यनेनेति स्मर: 1 2 | 'स्मृ आध्याने' । 13 शम्बरासुरस्य अरि: 14 शम्बरारिः । मनसि जायते इति मनसिजः । ‘जनी प्रादुर्भावे' । कुसुमानि 1 इषवो यस्य सः कुसुमेषुः । मनसोऽन्यस्मात् " न जायते इत्यनन्यजः । पुष्पं धनुर्यस्य सः पुष्पधन्वा । रतेः पतिः रतिपतिः । मकरः 1ध्वजे यस्य सः मकरध्वजः। 19 आत्मनो मनसो भवतीत्यात्मभूः । 'भू सत्तायाम् ' । एतानि 20 मन्मथनामानि ॥ २५-६।। 6 C, 5° परित्यागे W1. 7 जलचरनक्रोपलक्षण: B2, C; 1 ग्लपनयो: A, B2, K2, Y. 2 मत् मानसं D1, I, Ki, U, WI. 3 मथि C, D1, D2; मथे A. 4 B2, C add पुरुषा वा स्त्रियो वा. Ks, We add ध्वजे; केतनं ध्वजो' D1,I, W1. मकरकेतन इत्यर्थ: C, D1, K5, U, Wi. 'दृप हर्षमोहनयो: ' Wi. adds कान्तिरिच्छा. 8 कर्त्रर्थे कप्रत्यय: C; दर्पयतीति K3, W1; 10 Bg, C add शरीरं. 11 C 9 नास्ति B1, K3. 12 स्मयते इति स्मर: B1, Ba; 'स्मृ स्मरणे' B, C, K5, Wa, Y. 14 U adds अराति:. 13 शम्बरस्य K1, K3. Wa. T. 16 K3 adds एव. 19 आत्मना मनसा B1, C, D1, W2, Y. 17 अन्यजो न भवतीति K3. 15 जनि: A, B1, K1, W1; जात: U, 18 ध्वजो A, Kg, Ks, 20 काम ° Bo, D2, K3, Kg, W1. (पा.) मदनो - आत्मभूः । कामनामानि । - 6 'कं वदन्ति तपोभङ्गकारणं यतिनां जनाः । 1 न स्वीकुर्वन्ति किं सन्तः सर्वधर्मपरायणाः ॥' इति विदग्धकण्ठाभरणप्रश्नोत्तराभ्यां ब्रह्मसूशब्दः कामपर्यायः ।