पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्ड: (वि.) वसुदेव इति – वसुभिः दीव्यतीति वसुदेवः । वसुषु अष्टसु व्यतीत वा। ‘दिवु क्रीडादौ’। अस्य गृहे विष्णोरुत्पत्तिसमये आनकाश्च दुन्दुभयश्च वादिता इत्यानकदुन्दुभि: । एतानि विष्णु पितृनामानि ॥ बलेन भद्रः बलभद्रः । प्रलम्बनामानं रक्षो हतवान्" इति प्रलम्बघ्न: । बलेन दीव्यतीति बलदेवः ? : अच्युतस्याग्रजः अच्युताग्रजः ॥ २३ ॥ १८ 2 °काले K3; W1 omits. 4 °जनक° A, B1. 3 ताडिता देवै: C, D1, W2; 5 राक्षसं D1, I; °नामकं W.. 7 C adds 'दिवु क्रीडेत्यादि . (पा.) वसुदेवो – आनकदुन्दुभिः । विष्णुपितृनामनी । 'वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः' इति वैजयन्तीपाठाद् (पृ. ५, श्लो. २६) दुन्दुरप्यस्ति । 1 अष्टवसुषु K3, W2. आनकदुन्दुभयो नेदुरिति K3. 6 हन्तीति B2; C adds 'हन हिंसागत्यो: '. रेवतीरमणो रामः कामपालो हलायुधः । नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ॥ २४ ॥ संकर्षण: सीरपाणिः कालिन्दीभेदनो बलः । (वि.) रेवतीति–रमयतीति रमण: । रेवत्या रमणो रेवतीरमणः । ‘रमु क्रीडायाम् ' । कामं पालयतीति कामपाल: । 'पाल रक्षणे' । हलम् आयुधं यस्य सः हलायुधः । नीलम् अम्बरं यस्य सः नीलाम्बरः । रोहिण्या अपत्यं पुमान् रौहिणेयः । तालोऽङ्को यस्य सः तालाङ्कः । मुसलम् अस्यास्तीति मुसली । हलम् अस्यास्तीति हली । संकर्षतीति 'संकर्षण: । 'कृष विलेखने '। सीर: 5 पाणौ यस्य सः सीरपाणिः । कालिन्दीं भिनत्तीति कालिन्दीभेदनः । 'भिदिर् 'विदारणे' | बलमस्यास्तीति 'बलः । एतानि बलभद्रनामानि ॥ २४ ॥ 1 B1, D1, I, K1, Kg, W1, Y add रमयतीति राम: (?) 2 नीले अम्बरे B1, C, D1, I, K1, K3, W2. 3 हल: D1. 4 B1, K2, W‡ add संहरतीति. 5 Kg adds हलं. 6 Kg adds व्यधिकरणे. 7 D2, K2 add बली वा; बलः, धर्मधर्मिणोर्लिङ्गभेदस्तु मतुप्सामर्थ्यात् B2, C. (पा.) बलभद्रः - बलः । बलभद्रनामानि । 'स्यादेककुण्डल: शेषः सात्वतश्च सितासितः’। एतानि च । 'सौनन्दमस्य मुसलं तस्य संवर्तकं हलम्' इति वैजयन्ती (पृ. ५, श्लो. २४- २) । तद्योगात् संवर्तकधरः सौनन्द पाणिश्च भवति ।। २३-४ ।। 1 A1, B4 add पञ्च.