पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः । (वि.) दैत्यारिरिति – दैत्यानाम् अरिः दैत्यारि: । पुण्डरीके इव अक्षिणी यस्य सः पुण्डरीकाक्षः। पुण्डरीकं हृत्कमलम् अक्षतीति' वा । 'अक्षू व्याप्तौ । गां 'भुवं विन्दतीति गोविन्दः । गाः धेनूः विन्दतीति व । । 'विदिर् लाभे ' । गरुडः श्ध्वजे यस्य सः गरुडध्वजः । पीतम् अम्बरं यस्य सः पीताम्बरः । न विद्यते च्युतिः यस्य सः अच्युतः" । 'च्युतिर् क्षरणे ' । शृङ्गविकार: शार्ङ्ग धनु: 7 अस्यास्तीति शाङ्ग । विष्वक्॰ विषूची सर्वगता सेना यस्य सः विष्वक्सेनः । जनान् अर्दयति सुखयतीति जनार्दनः । 'अर्द गतौ याचने पीडने 10 च ' ॥ १९ ॥ १६ 1°कवत् B2, D1, K2, W1, Y; °कमित्र A, C, T. आक्षिपति C. 3 W1 omits. 4 ध्वजो K1. 6 न च्युतः अच्युतः D1, K3, K5, W1, Y. omit. 9W1 omits. 2 D2, K3 add व्याप्नोति; 5 पीते अम्बरे D1, I, K1, K2 7 Kg adds चापो. 8 W1, Y 10K3, W1, Y omit. उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेव स्त्रिविक्रमः || २० ।। (वि.) उपेन्द्र इति – इन्द्रम् अनु जातः उपगतः । उपेन्द्रः । इन्द्रस्य अवरजः इन्द्रावरजः । चक्रं पाणौ यस्य सः चक्रपाणि: । चत्वारो भुजा यस्य सः चतुर्भुजः । पद्मं नाभौ यस्य सः पद्मनाभः । मधोः रिपुः मधुरिपुः | वसुदेवस्य अपत्यं पुमान् वासुदेव: । त्रयो लोका विक्रमेषु पदेषु यस्य सः त्रिविक्रमः | त्रीन् लोकान् विक्रमत * इति वा । 'क्रमु पादविक्षेपे' | त्रिषु' लोकेषु विना' गरुडेन क्रमते त्रिविक्रम इति वा' ।। २० ।। K3 omits. B2, C. 1 K2, W1, Y omit; उपजायते C; उपजात: B1, B2, C, Ks; इन्द्रशब्दस्य परनिपातनं C. 2 नाम्यां K1. 3 K 1 adds दैत्यस्य असुरस्य C. 6 त्रिलोकेषु B1. 4 पादेषु Da; 5 पदेन क्रमते D.. 7 विना तृतीयान्तं [पक्षिणा] 4 C, D2, K1, K3 add 'क्रमु पदावक्षिपे'. देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥ (वि.) देवकीति — देवक्या नन्दनः देवकीनन्दनः । शूरस्य वसुदेवस्य अपत्यं शौरिः । श्रियः पतिः श्रीपतिः । पुरुषाणां पुरुषेषु वा उत्तमः पुरुषोत्तमः । वनमाला अस्यास्तीति वनमाली । बलिं ध्वंसयतीति बलिध्वंसी । 'ध्वंसु अवस्रंसने ' ।