पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवगः] दाक्षिणात्यव्याख्योपेतः षत्वमिति रभसकोशकारेण तदपाठि 'विरिञ्चो विश्वसृट् स्रष्टा विरिञ्चिः कमलासनः इति ।। १६-१७ ।। 1 द्रुघण: A1, B.. 2 A1 adds १३. विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेश: केशवो माधवः स्वभूः ॥ १८ ॥ १५ , (वि.) विष्णुरिति – वेवेष्टीति विष्णुः । 'विष्ऌ व्याप्तौ' । नरस्य धर्माख्यस्य ऋपेरपत्यं नारायणः । नरस्येदं नारम् अयनम् वपुः अवतारेषु यस्येति वा नारायणः । नारं नरसमूहम् अयति 'स्वकर्मणेति वा । 'अय पय' गतौ ' । नारा : ' आपः अयनं स्थानं यस्येति वा । राः शब्दाः आयान्ति निर्गच्छन्ति यस्मात् सः 'रायणः | रायणादन्यः अरा- यणः, न अरायणः नारायणः । 'अशब्दगम्य इत्यर्थः । करोतीति कृष्णः । ‘डुकृञ् करणे ' । दैत्यान् कर्पतीति वा । 'कृष विलेखने' | कृष्णवर्णत्वाद्वा' । विकुण्ठाया अपत्यं पुमान् वैकुण्ठः । विष्टकारे श्रोत्रे यस्य सः विष्रश्रवाः । विष्ट राकारो रोमावर्ती श्रवसि यस्येति वा । विष्टरं व्यापनशीलं श्रवः कीर्तिर्यस्येति वा । दाम 10 उदरे यस्य स दामोदरः । हृषीकाणाम् इन्द्रियाणाम् ईशः हृषीकेशः । शोभनाः केश। यस्य सः केशव : 1 | कश्च अञ्च ईशश्च केशा: ब्रह्मविष्णुरुद्रा: 12 ते अस्मिन् वसन्तीति 13 वा केशवः । मधोरपत्यं पुमान् माधव : 1 4 | माया: लक्ष्म्याः धवो वा । मा धूयते शत्रुभिरिति वा । 'धूञ् कम्पने' । मधोरयं हन्ता वा । वध्यधातुकत्वं 15 संवन्धः । स्वतो 16 भवतीति स्वभूः । स्वेन हिरण्येन भवतीति वा स्वभूः ॥ १८ ॥ 6 ऋषिः स एव अयनं स्थानं यस्य सः B, C; नरस्य ज्ञानं वपुः 3 ‘ अय गतौ ' Da, I. 4 नारं नरकृत्यं 2 Bg omits. 5 तस्य वेदजनकत्वादिति भावः C. 6 शब्दगम्य 7 वर्णात् Y. 1 नार इति कश्चित् अवतारेषु अयति वा Kg. कर्म अयतीति वा । 'अय पय गतौ ' B2. D1, W1, Y. 9 व्यापक° Y. 10 अत्र उदरस्य परनिपातत्वं B, C. गन्धवन्तः केशाः यस्येति केशवः । 'वा गतिगन्धनयोः' । परनिपात: B2, C. K3, K5, W2; °ईशा: Dg, I, K1, Wi. अंहोभिरिति वा B1, C. 8 B, C, D1, K 1, K3, W1 add श्रवसी. 11 वान्ति गन्धयन्ति इति वा: 12 °ईश्वराः 13 ' वस निवासे' U. स्वस्मिन् W1; D1, I add 'भू सत्तायाम् '. 14 मा धूयतेऽयम् 15 घातक W1; W, omits. 16 स्त्रयं B1, C, W2, Y; दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥