पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२ अमरकोशः [प्रथमकाण्डः स्थलमिति' हिरण्याख्यदैत्ये दानवशब्दप्रयोगः । ' इतः स दैत्यः प्राप्तश्रीनेत एवार्हति क्षयम्' (कु. सं. २.५५) इति तारकाख्यदानवे दैत्यशब्दप्रयोगः । ॥ १२ ॥ 1 A1 adds दृष्ट: . सर्वज्ञः सुगतो वुद्धो धर्मराजस्तथागतः । • समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥ (वि.) सर्वज्ञ इति – सर्वं जानातीति सर्वज्ञः । 'ज्ञा अवबोधने'। 'शोभनं गतं ज्ञानम् अस्येति सुगतः । ये गत्यर्थास्ते ज्ञानार्था इति । क्षणिकमिति आच्छिनत्ति वा । बुध्यते इति बुद्ध: । 'बुध ' अवगमने' | धर्मस्य संसारोद्धरणादेः राजा धर्मराजः । तथा सत्यं गतं भूतं ज्ञानमस्य तथागतः । समन्ताद् भद्रं मङ्गलमस्येति समन्तभद्रः । 'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग 'इतीरणा || ' इति । सोऽस्यास्तीति भगवान् । मारं 'कामं जयतीति मारजित् । मारान् कामक्रोधादीन् जयतीति वा 10 | 11 स्कन्धमारक्लेशमारादीन् जयतीति वा । लोकान् जयतीति लोकजित् । भवं जयतीति जिनः । 'जि अभिभवे' । त्रयाणामपि 'जि जये' इति वा धातुः ॥ १३ ॥ 3 Kg, W1_omit 5 B2 adds 'राजू दीप्तौ . 6 सर्वे गम्ल - 8 भग: Ks, W2; इति स्मृत इति स्मरणात् C. 10 D1 adds 'जि जये. 9 क्लेशं B1, B2, C. 11 बौद्धास्तु स्कन्धमार: क्लेशमारो मृत्युमारो देवपुत्रमारश्चेति चतुरो मारानाहुः । तान् जयतीति वा D1, K2, Kg, W1. 2 सुष्टु अपुनरावृत्तिमोक्षं गतः D1. 4 अवबोधने B1, C. 1Bg adds सु. ये ... र्थाः . अर्था: ज्ञानार्था: B2. 7 ईरिता: K3; स्मरणात् B2, D1, W2. भगः ऐश्वर्यादिषट्कोऽस्यास्तीति भगवान् । तदुक्तम् – ऐ षडभिज्ञो दशबलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीघनः शास्ता मुनि:, शाक्यमुनिस्तु यः ॥१४॥ (वि.) षडभिज्ञ इति – दिव्यं चक्षुः, दिव्यं श्रोत्रं, पूर्वनिवासानुस्मृतिः, परचित्ततत्त्वज्ञानम्, 'आश्रवक्षयः, ऋद्धिश्चेति षड्" अभिज्ञा यस्य सः षडभिज्ञः । "दान्तिक्षान्तिशीलवीर्यध्यान 'कान्ति' बलोपाय' प्रणिधिविज्ञानानि 10 दश बलानि यस्