पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः (वि.) अमरा इति – 1 अमराः, न म्रियन्ते इत्यमराः । ‘मृङ् प्राणत्यागे' । न विद्यते जरा येषां ते निर्जरा: । 'लृष् 'वयोहानौ' । दीव्यन्तीति देवाः । 'दिवु क्रीडादौ ' । 'त्रिदशपरिमाणं वयो येषामिति त्रिदशा: । विबुध्यन्ते इति विबुधाः । 'बुध अवगमने' । सुरन्तीति सुराः । 'सुर ऐश्वर्ये' । सुष्ठ राजन्ते वा' । 'राजू दीप्तौ' । भक्त्या दत्तं सुष्टु रान्तीति वा । ‘रा आदाने' । शुभं रान्तीति' वा । 'रा दाने' । अब्धिजा सुरा येषामस्तीति वा । सुष्ठ वाञ्छितफलं रान्तीति' वा । 'रा दाने' । सुष्टु

पृणन्ति पालयन्तीति सुपर्वाण: । 'पृ पालनपूरणयोः' । शोभनं पर्व आचरित' मेषामिति

वा । सुष्ठु मन्यन्ते सुमनसः । 'मन ज्ञाने' । शोभनचित्तत्वाद्वा | त्रिदिवस्य ईशा: 10 त्रिदिवेशाः । द्यौः ओक : 1 स्थानमेषां ते दिवौकसः ॥ ७ ॥ ८ 1Y omits. 2I, K1, K2, W1 omit. (परिमाणं K2) येषां ते B2, C, D1. 4 D2, I, K1, Kg add सुरा:. add आददते. U, W2. add अस्ति. 6 रायन्ति 'रै शब्दे' B2, C, D2, K2, K3; अत्र एकपत्रं ग्रन्थपातः 7 D2, K1, K2, K3 add ददति. 8 पिपर्ति B1, C. 9 B1, T 10 ईश्वरा: W1. 11 निलय: B2, C. (पा.) अमरा- अमृतान्धसः । सर्वत्र स्वर परत्वाद्धल्परत्वाच्च 'लोपः श(कल्य- स्य' इति (८. ३. २९) 'हलि सर्वेषाम् ' इति (८. ३. २२) द्वाभ्यां यलोपः ॥ ७ ॥ 3 तिस्रो दशा: परिणाम: 5 Dg, Wa आदितेया दिविषदो लेखा अदितिनन्दनाः | आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥ (वि.) आदितेया इति -- अदितेः अपत्यानि 2 आदितेयाः । दिवि सीदन्तीति दिविषदः । ( 'षद्लृ विशरणगत्यवसादनेषु' । लिख्यन्ते 'पटादौ लेखः । " लिख लेखने' । प्राणिनां 'शुभाशुभानि लिखन्तीति वा । ' लिख अक्षरविन्यासे' । अदितेः नन्दना: 5 अदितिनन्दनाः । 'अदितिं नन्दयन्तीति वा । 'अदितेः पुत्राः आदित्याः । ऋते सत्ये भवन्तीति ऋभवः । ऋ' स्वर्गे भवन्तीति वा ऋभवः । ऋशब्दो 10 नीतिवाची । तस्माद् भवन्तीति वा । न विद्यते स्वप्नो येषां ते अस्वप्नाः । मर्त्यादन्ये 11 अमर्त्याः । 12 न म्रियन्ते इति वा अमर्त्याः । अमृतम् अन्धो ऽन्नं येषां ते अमृतान्धसः ॥ ८ ॥ 1 अदित्या वा D2, W2. 2K1, K3 add पुमांस: ; D1, Kg, W1 add 4 शुभं D2, K1, K3, W1. 6W1 omits; K1, K3 add 'टु नदि समृद्धौ . 8 ॠतेन सत्येन B2, D1, I, K3, W1. आदित्याः . 5 • पुत्रा: B2, D2, K2, W1. 7 अदित्याः अपत्यानि पुमांस: B2, Y. 3 फलकादौ K1, T; फलकायामिति D2.