पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] ‘अक कौटिल्ये'. 7 तृतीया B2, C, D1, W2. 9 C adds भूम्यन्तरिक्षदिव इति विवक्षया तस्य तृतीयत्वमिति भावः . दिवश्व Y. एतत् नपुंसकलिङ्गं, भूम्यादिविवक्षयेति भाव: C. 11 दाक्षिणात्यव्याख्योपेतः ५ 2 (पा.) स्वरव्ययं – त्रिविष्टपम् । एतानि स्वर्गनामानि । अत्र स्वःशब्दोऽव्ययः' । स्वः पुण्यलोकः । ‘स्वर्जयति काशी' । स्वर्गशब्दसाहचर्यात् स्वः शव्दस्य पुंस्त्वे प्राप्तेऽव्ययवचनाद् अलिङ्गत्वम् । 'सदृशं त्रिषु लिङ्गेषु' इति विधीयते । तत्स्वरूपे शृङ्गारप्रकाशिका–‘इयमयमिदमित्यर्थसंज्ञाव्यपदेशनिमित्तं शब्दसंस्कारहेतुः शब्दधर्मो लिङ्गं स्त्री पुमान् नपुंसकमिति' (cf. पृ. १८३) । टाबादिशब्द संस्कारहेतुरियंव्यपदेश- कारणं स्त्री। ‘तस्माच्छसो नः पुंसि ' (६. १. १०३) इत्यादिशब्द संस्कारहेतुरयमित्यर्थ- व्यपदेशकारणं पुमान् । ‘इकोऽचि विभक्तौ ’± (७. १. ७३) इत्यादिशब्द संस्कारहेतुरि- दमित्यर्थव्यपदेशकारणं नपुंसकम् । तदेतल्लिङ्गं षोढा | शुद्धं मिश्रं संकीर्णम् उपसर्जनम् आविष्टम् अव्यक्तं चेति । तेष्वेकसंस्कारहेतुः शुद्धम् - खट्वा वृक्षः कुण्डं स्त्री पुमान् नपुंसकमित्यादि । संस्कारद्वयोपग्राहि मिश्रम् | मरीचि: ऊर्मिः अर्चि: छर्दिः कषायं कवाटमित्यादि । संस्कारत्रयोपग्राहि संकीर्णम् । तटी तट: तटं, श्रृङ्खला शृङ्खलः शृङ्खलम् | विशेष्यशव्दसंस्कारग्राहि विशेषणरूपमुपसर्जनम् । शुक्ला शुक्ल: शुक्लम् | विशेषणत्वेऽपि नियतसंस्कारमाविष्टम् । प्रीतिर्विषय: प्रधानं भार्या दारा: कलत्रम् । लिङ्ग निमित्तशब्द - संस्कारानर्हमव्यक्तम् । पञ्च षट् कति उच्चैः नीचैः यूयं वयमित्यादि । स्वर्गादयः पञ्च रूपभेदात् पुंलिङ्गाः । वैजयन्त्यां (पृ. ३ . २) तु त्रिदिवशव्दः पुंनपुंसक इति कथितः । ‘अमर्त्यभवनं ना' च त्रिदिवं स्यात् स्वरव्ययम्' इति । द्योदिवौ शब्दौ स्त्रीरूपभेदाभावालिङ्गप्रतीत्यविषयौ । अतः स्त्रियामिति विशेषविधिः । अकारान्तदिवशव्दोऽप्यस्ति । 8 ग्रौश्च B1, C, D1, K2, W2. 10 दिवि च T; स्वर्लोकस्तूर्ध्वलोकः॰ स्यादवरोहः फलोदयः । मन्दरः सैरिकः शक्रभवनं खं दिवं नभः || ' इति त्रिकाण्डशेषः (पृ. १, लो. ४) । त्रिविष्टपशब्दो नपुंसकः । विष्टपशब्द | पेक्षया प्राप्त पुंनपुंसकत्व प्रतिषेधार्थ क्लीबवचनम् । यदाह कैयट: – क्लीवग्रहणं नित्यज्ञा- पनाथ मिति ॥ ६ ॥ 1 अव्ययम् B1. मुद्रितग्रन्थे (पृ. ३ श्लो. २) मुद्रितग्रन्थे च (पृ. १, श्लो. ४) 2 सुपि A1. 3 A1 adds कथम्. 5A1 omits अभावात्. 4 गौश्च त्रिदिवः इति 6 देवलोक: B3, B4 ; अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः । सुपर्वाणः सुमनसत्रिदिवेशा दिवौकसः ॥ ७ ॥