पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ D2, K1. K1, Y. सृप्ल. 6 We adds वर्तते. 9 D2, K1, K2, K3 omit. अमरकोशः 1 एतदव्ययम् C, D2. (पा.) तरणिरहितपारावार इव परिभाषारहितं शास्त्रं दुस्तरमिति परिभाषां निरूपयति त्रिलिङ्गय।मिति - त्रिष्विति प्रयुक्ते त्रिलिङ्गे कृतविवक्षा ज्ञेया । 'सरन्ध्रे सुषिरं त्रिषु' (१. ९. २) । द्वयोरित्युक्ते स्त्रीपुंलिङ्गे ज्ञेये । यथा 'वर्द्वयोर्ज्वालकीलौ' ( १. १. ५७) । यद्यपि द्विशब्द: संख्येयसामान्यवर्ती तथापि वक्तृविवक्षापूर्विका शब्द- प्रवृत्तिरिति विवक्षावशात् प्रकृते संख्येयविशेषवर्ती । तस्माद् 'द्विहीनं प्रसवे सर्वम् ' (२. ४. १८) इत्यादौ मिथुनार्थप्रतीतिकरो भवति । 'अर्धरात्रनिशीथौ द्वौ ' (१.४.६) इत्यत्र संख्याविशेषस्य श्रूयमाणत्वातिप्रसङ्गस्यावकाशो नास्ति । निषिद्धलिङ्गं शेषार्थम् । निषिद्धलिङ्गं पदं पारिशेष्यानिषिद्धलिङ्गार्थं स्यात् । यथा 'अस्त्रियामाढकद्रोणौ' (२. ९.८८) । अत्र शेषत्वं पुंनपुंसकयोरेव | आढकः, आढकम् । द्रोणः, द्रोणम् । त्वन्ताथादि न पूर्वभाक् | तुशब्दान्तम् अथशब्दादि पदं पूर्वभान भवति । त्वन्तस्य –'प्रत्यन्तो म्लेच्छदेश: स्यान्मध्यदेशस्तु मध्यम : ' (२. १. ७) । 'प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ' (२. ६. ५५ ) । एवं दण्डापूपन्यायादुदाहरणान्तरराण्यपि ' द्रष्टव्यानि । 'स्यात्तेमनं तु निष्ठानम्' (२. ९. ४४) इत्यादौ स्यादादिप्रयोगः । अथादेः –'अम्बा माताथ बाला स्याद्वासू: ' (१. ८. १४), 'भार्या जायाथ पुंभूम्नि दारा: ' (२. ६. ६) । अर्थग्रहणाद् 'अनुक्रोशोऽप्यथो हस: ' (१. ८. १८) इत्यादौ अथोशब्द- प्रयोगः । इतः परं स्वर्गादिक्रमेण शास्त्रमवतारयति । अत्र शेषपूरणं विशेषाभिधानं टीकाप्रयोजनम् ॥ ५ ॥ 1 त्रिलिङ्गी ज्ञेया B3, B4. 2 ° प्रसङ्गः स्यादिति । अत्र A1. 3 A1 adds तेनैव स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः | सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् ॥ ६ ॥ (वि.) स्वरिति — स्वर्यते स्व:, ' 'वृ शब्दोपतापयो: ' | स्वः सुखं गम्यते इति स्वर्गः । 36 'गम्ल गतौ ' । सुष्ट अर्ज्यते इति वा । 'अर्ज सर्ज अर्जने' । न विद्यते अकम् असुखम् अत्रेति नाक': । 'तृतीयश्चासौ 'दिवञ्च त्रिदिवः' । त्रिदशानाम् आलय: त्रिदशालयः । सुराणां लोकः सुरलोकः । दीव्यन्त्यस्यामिति द्यौः, द्यौश्च 10 । 'दिवु क्रीडाविजिगीषाद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु' । इमावोकारान्तवकारान्तौ स्त्रीलिङ्गौ । तृतीयं च तद् विष्टपं च त्रिविष्टपम्" । एतानि स्वर्गनामानि ॥ ६ ॥ 7 Bg adds त्वन्ताथा दि. 4 अर्जयति D1, W1, Y. 12 B1, B2, C, D, add अत्र. [प्रथमकाण्डः 8 भजति B2, 5 W2 omits; दु:खं D1. 3 D2, We add 6 C adds