पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः 7 नभाः श्रावणिकश्च सः इत्युक्तं न तु श्रावणौ नभसौ इत्युक्तम् B2, C; न नभसि श्रावणे नभा: K3. 8 सांकर्य W2. 9 भिन्नलिङ्गानां C, D2. (पा.) प्रतिसंस्कारप्रकारं दर्शयति भेदाख्यानायेति – अत्र शास्त्रेऽनुक्तानां भिन्नलिङ्गानां पदानां क्रमाह्रते क्रमं विना भेदाख्यानाय भेद्प्रतिपत्तिनिमित्तार्थं न द्वन्द्वः कृतः। नैकशेषः । एकशेषोऽपि न कृतः । संकरश्च नः कृतः । केवलं क्रम एव 2 कृत इत्यर्थ: । द्वन्द्वप्रतिषेधस्य – 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ' (२. ८. ९८ ) । अत्र पार्थक्यमेव क्रमशव्दार्थ: । एकशेषप्रतिषेधस्य – 'नाली नालं च काण्डोऽस्य' (२. ९. २२) इत्यादि । अत्र सर्वपदोक्तिरेव क्रमशव्दार्थः । संकरप्रतिषेधस्य –'स्तवः स्तोत्रं स्तुतिर्नुति: ' (१. ६. ११) । अत्र विभाग एवं क्रमशव्दार्थः । भेदप्रतीतिस्थले संकरो न दोषाय' । 'अलंकारस्त्वाभरणं परिष्कारो विभूषणम्' (२. ६. १०१)। अत्र भिन्नलिङ्गानामित्यनेन अभिन्नलिङ्गानामुदाहरणान्युक्तान्येव । 'द्वन्द्वस्य - 'गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ' (२. २. ४) । 'निकाय्य - निलयालयाः' (२. २. ५) । एकशेषस्य – 'नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ' ( १. १. ५१) । अनुक्तानामित्यनेन उक्तानां भिन्नलिङ्गानां द्वन्द्वादयः कृता एव । 'तमालपत्रतिलकचित्रकाणि विशेषकम् ' (२. ६. १२३) इत्यत्र 'द्वितीयं च तुरीयं च न स्त्रियाम्' (२. ६. १२३) इति लिङ्गमुक्तम् । 'धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः' (३. ३. १३९) इत्यत्र ‘स्याद्धर्ममस्त्रियां पुण्यश्रेयसी' (१. ४. २४) इत्यत्र लिङ्गमुक्तम् । ‘पद्माकरस्तटाकोऽस्त्री कासार: सरसी सर: ' (१. १२. २८) । अत्र तटाकोऽस्त्रीति लिङ्गमुक्तम् ॥ ४ ॥ 6 1 A1 adds समास: 2 क्रियते A1. 3 A1 adds तत् कथम् add अत्र. 5 एवम् B1. त्रिलिङ्गयां त्रिष्विति पदं मिथुने तु द्वयोरिति । निषिद्धलिङ्गं शेषार्थ त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥ 4 A1, Ba (वि.) त्रिलिङ्गथामिति — त्रिष्विति प्रयुक्ते लिङ्गत्रयं ज्ञेयम् । यथा 'तटं त्रिषु ' इति (१. ९. ७)। द्वयोरित्युक्ते स्त्रीपुंलिङ्गे' ज्ञेये । यथा - ' – 'रेणुर्द्वयोः' इति (२. ८. ९८) । एकलिङ्गनिषेधे अवशिष्टलिङ्गं ज्ञेयम् । यथा – 'विमानोऽस्त्री' इति (१. १. ४९) । तु शब्दोऽन्ते यस्य तत् त्वन्तम्, अथशब्द: 'आदिः यस्य तत् अथादि, त्वन्तं च अथादि च' पदं पूर्वपदार्थं न भवति शास्त्रेषु ॥ ५ ॥ 1 त्रये W2. 2 पुंलिङ्ग स्त्रीलिङ्गे K3, Kg. 4 परिशिष्टलिङ्गे जेथे B2, W2; °लिङ्गद्वयं W1; °लिङ्गपरिग्रह इत्यर्थ: Kg. 3 एकलिङ्गे निषिद्धे B2, C. 5 आदौ Ba,