पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ omits. 11U omits. तस्येति भावः B2, C, D1. B2, O, D1 omit लिप्सा. अमरकोशः 12 T omits मुक्ति. 14 K5, W‡ omit. 17 अकारवर्णवाच्यस्य C. 13 °व्याता 15 विषये W1. अमरपदपारिजातः मल्लिनाथसूरिकृतः आकण्ठपौरुषमतो वारणतां विघ्नवारणेनैव । प्रथितां बिभ्रदशेषत्रिदशोपास्यं परं महः सेवे ।। उक्तानुक्तनिरुक्त चिन्तनफलां टीकां सुभूते: परा- मालोच्यामरभाष्यवार्त्तिकमुखान् ग्रन्थान् बहूनादरात् । व्याचक्षेऽमरसिंहन।मकमहं श्रीवत्सगोत्रोद्भवो 'बोल्लाटिन्मिनृसिंहसूरितनयः श्रीमल्लिनाथो मुदा ॥ * [प्रथमकाण्डः T; प्रदातृत्वात् 16 वीप्सा W1; इह खलु निखिलफणिपतिविततमतकमलनिलयकबलनकलशतनयः कविवरकरटि- निकरसिंहामरसिंह: 2 'प्रक्रम्यमाणनिबन्धनरत्नपरिपन्थिनिरन्तरान्तरायतिमिरपटल नियुत- मिहिरसमानामभिनवाधिकृतदेवतोपासनामनेन निबध्नाति यस्येति — तत्र देवतायाः परममहत्त्वख्या पनार्थं समुद्रत्वमारोपितम् । तत् कथम् | यस्यागाधस्य मन्दरगिरिमूल- 4 कर्षणेनाकलुषितस्य ज्ञानदयासिन्धोः । क्षीरस्य सिन्धुः क्षीरसिन्धुरिति यावत् । ज्ञान- दययोः सिन्धुः ज्ञ।नदयासिन्धुरिति अधाराधेयभाव संबन्धेन । समस्त विषयकानुभवस्य ‘सकलजगदुद्धारकयायाश्चाधारभूतसिन्धोर्गुण' अलङ्घयत्वादयः । अनघाः तरुचरनि- करलङ्घ्रितत्व।दिदोषेणादूषिताः | अक्षयः कलशसुतकरतलाचुलुकितः । स शैवानां शिवः वैष्णवानां विष्णुः, जैनानां जिन:, बौद्धानां बुद्ध इति तत्तदधिदेवत पूर्वसिन्धुः । हे धीराः हे विद्वांसः। श्रियै चामृताय च नारायणनाकपालैकविषयसर्वजनयोगिविषयभूत- श्रयमृतयोः । भवद्भिः सेव्यताम् । त्रिवर्गसंपत्तेर्मोक्षस्य चाराध्यतामित्यर्थः । किं च । यस्यागावस्य शेषवाचस्पतिप्रभृतिभिरपि वर्णितुमशक्यस्य | ज्ञानदया ज्ञानदानसंपत्त्या | ज्ञानस्य दाः दानम् ईः संपत्तिः । तया ज्ञानदयेत्युपलक्षणतृतीयया उपलक्षितस्येत्यर्थः । सिन्धोर्गुणाः प्रसादमाधुर्यादयः । अनघाः पापरहिताः । अक्षयः सकलजनैरुम्भितोऽप्य- क्षीणः। स विद्वज्जनाधिदेवतापूर्वसिन्धुः । धीराः श्रियै चामृताय च । सिन्धुर्लक्ष्मीसुधयोः सेव्यः । ‘एकः शब्दः सम्यग् ज्ञातः सुष्ट प्रयुक्तः स्वर्गे लोके कामधुग् भवति' (cf. महा- भाष्य, ६. १. ८४) इत्यागमात् । वाचस्तत्साध्यस्वर्गस्य च भवद्भिः सेव्यताम् । लक्ष्मीसरस्वतीधात्रीत्रिवर्गसंपत्तिविभूतिशोभासु । उपकरणवेषरचनावसुधासु श्रीरिति प्रथिता ॥

  • A1 has nine additional introductory verses, some of them contain-

ing contradictory statements.