पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः दाक्षिणात्यव्याख्योपेतः प्रथमकाण्डः १. स्वर्गवर्गः यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेव्यतामक्षयो धीराः स श्रियै चामृताय च ॥ १ ॥ अमरपदविवृतिः लिङ्गयसूरिकृता शिवं हरिं विधातारं तत्पत्नीस्तत्सुतान् गुरुन् । नत्वा समस्तप्रत्यूहशान्तये मङ्गलाय च ॥ पदवाक्यप्रमाणज्ञैः क्षीरस्वाम्यादिसूरिभिः । कृतान् ग्रन्थान् समालोच्य बालानां सुखबुद्धये || यत् कृतं 'सुरसिंहेन नामलिङ्गानुशासनम् । तत्रस्थायाः पदावल्या 'विवृतिर्वक्ष्यते मया ॥ यस्येति – हे धीराः विद्वांसः यस्य गुणा: अनघा : निर्मला: स देवः श्रियै' च अमृताय च मोक्षाय 10 च सेव्यताम् आराध्यताम्, 11 12 भुक्तिमुक्तिफलावाप्त्या 3 इत्यर्थः । किं विशिष्टस्य ? ज्ञानं च दया च तयोः सिन्धुः तस्य 14 ज्ञानदयासिन्धोः । अगाधस्य 15 विषय 'लिप्साविरहितस्य । किंविध: ? अक्षयः क्षयरहितः । श्लोकोऽयं समुद्रपक्षेऽप्यूह - नीय: । 17 अस्य विष्णो: क्षयो निवास: अक्षयः ॥ १ ॥ 1 A, T add गुरुं. A, B1, C, D1, K1. 8y adds देवस्य. 2 तत्पत्नीं T. 3 च वै W1; इमान् Bp. 6 सूरि° W1. 5 तत्कृतं Kg, T; यत्कृतिं W2. 9 D1, K2, W1 add लक्ष्म्यै; gap in U; श्रिये W2. 4 °लोक्य 7 विवृत्ति: W1. 10 W₁