पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५. सिंहादिवर्गः] दाक्षिणात्यव्याख्योपेतः ३२७ ‘कपि चलने' । (वि.) कपिरिति — प्रायेण कम्पते चलतीति कपिः । स्वैरुल्लङ्घनैर्गच्छतीति प्लवंगः' | लवगश्च । 'गम्ऌ' गतौ' । शाखा सु संचारी मृगः शाखामृगः। श्ऋथं चर्म वली, सा मुखेऽस्य वलीमुख: | मिथ: । खासंकटे म्रियत इति मर्कट: । 'मृङ् प्राणत्यागे' । मर्कति गच्छतीति वा । 'मर्क ग्रहणे' । नर इव वानरः । की इत्यनुकरणशब्दं कर्तुमीष्टे कीशः । 'ईश ऐश्वर्ये ' | वने' ओकः स्थानमस्य वनौकाः । सान्तः । वानरनामानि । 'कोन्तिपेल्लु' || 'भल्लते हिनस्ति क्रिमीनिति भल्लुकः । भल्लूकश्च । 'भल्ल भल परिभाषणहिंसादानेषु' । 'ऋक्ष्णोति हिनस्ति क्रिमीनिति ऋक्षः। ‘ऋक्ष हिंसायाम्' | ऋष्यते गहनमनेनेति वा । ‘ऋषी गतौ’। अच्छेनाभिमुख्येन भल्लते हिनस्तीति अच्छभल्लः । भलत इति भालूकः । 'भल परिभाषणहिंसादानेषु' । भल्लूकनामानि । एलुंगुपेल्लु' || प्रशस्तो गण्डोऽस्यास्तीति गण्डकः’। गण्डति वर्धयत्यास्यमिति वा । 'गडि वढ्नैकदेशे' | खडयति जिघांसन्तं भिनत्तीति 1'खड्गः। 'खडि भेदने' । खड्गो हिंस्रं शृङ्गमस्यास्तीति खड्गी । खड्गमृगनामानि। 6 11गण्डमृगमुपेल्लु' || पङ्के लुलति लोडतीति " लुलायः । ‘लुड विलोडने' । डलयोरभेदत्वात् । 'लुल संश्लेषणे' इति वा धातुः । सत्त्ववत्वात् मात इति महिष: । 'मह पूजायाम' । मह्यां शेत इति वा । 'शीं स्वप्ने ' । वाहानामश्वानां समूहो वाहं, तद् द्वेष्टीति वाहद्विषत् 13। 'द्विष अप्रीतौ' । महाकायत्वात् ताड्यम (नोऽपि का ईषत् सरतीति कासरः । 'सृ गतौ'। सीरा एषां सन्तीति सीरिणः बलीवर्दाः । सीरिभिः सह भातीति सैरिभ:14। 'भा दीप्तौ' । महिषनामानि ॥ '15 कारेनुपोतुपेल्लु' ॥३-४॥ 4 वलयो 6 भल्लति Kg, Kg. 7 ऋक्षति 1 प्लवो लङ्घनं तेन गच्छतीति F2, Pt2; Ks, Ke add 'प्लुङ् गतौं'. सुटूल गतौ' I, J2, W2. 3 शाखाचारी (संचारी I, J2) मृग: F2, Ptg. मुखेऽस्य सन्तीति D2, K5, Kg. Kg, Kg. तीक्ष्णत्वात् खड्ग: शृङ्गं, तद्योगात् F2, Pt2. 5 वनं F2, Pt2. 8 ' करडि' J2. 9 गण्डति गण्डस्थलवत् D2, Kg. 10 खण्डयति 12 लोलनं 11 13. लुलस्तमयतीति, ‘अय गतौ ' F2, Pt2. खड्गमृगमु मु' Ptg. वाहस्य हयस्य द्विषत् शत्रु: Fg, Ptg. 15 ' काडकोण ' J2- 14 सीरिभिर्हलयुक्तैः पशुभिः भान्तीति सीरिभाः कर्षकाः, तेषामयं F2, P12. (पा.) कपिः – वनौका: । शेषे- ‘च प्लवङ्गमः । महावेगो दधिमुखः कुरङ्गो भल्लुकः पृथुः। सालावृको हरिश्चापि ॥ ' 'भल्लूको कपिभल्लूको' इति चिन्तामणि: । 'महावेगो दधिमुखः कुरङ्गो भल्लुकः पृथुः' इति वैजयन्ती (प्र. ६८, लो. ४०) । कपिनामानि ॥ अथ गोलागलोऽसिताननः ।