३२८ अमरकोशः [द्वितीयकाण्ड: नीलशीर्षोऽपि । नीलशीर्षीति नकारान्तोऽपि । स्त्रियां नीलशीर्षीत्यपि । 'कोण्डमुच्चु शेषे — अथ क्ष्विङ्को रक्तास्यः । स्त्रियाम् – क्ष्विङ्का । तथा च पुरुषमृग इत्यनुवाके । क्षुरे । ‘सा ज्ञेया वानरी क्ष्विङ्का यस्या रक्तमुखं भवेत्' इति । ' चिकलिक्क’ | शेषे – नीलज: कपिः नीलकः। नीलेन वर्णेन नीलात्पर्वताद्वा जातो नीलजः । स नीलकः इत्युच्यते । ‘कोंडेङ्ग’। शेषे–कर्म भावश्च कापेयम् । कर्मभावयोः कापेयशब्द: स्यात् । अथ भल्लुके–भल्लूकाः। बालूक इत्यपि क्वचित् । शेषे– ‘भल्लाटो मृगधूर्तकः' । ‘भल्लाच्छौ दीर्घरोमाक्षे' । 'भल्लो भल्लूकबाणौ स्त: ' इति धरणिः । 'अच्छौ निर्मल- भल्लूकौ’ इत्यजयः। ऋक्षशब्द ऋकारादिः। ‘भल्लूको दीर्घरोमर्क्षी भल्लाटो 'वृकधूर्तकः इति वैजयन्ती (प्र. ६५, लो. ७) । केषांचिद् रिशब्दादिरपि । रिक्षहर्यक्षकक्षरी' (द्विसं. १८. ५८) इति राघवपाण्डवीयम् । अच्छभल्ल इत्येकं नाम । 'विकरालो- ऽच्छभल्लव' इति वैजयन्ती (प्र. ६५, लो. ७) । केषांचिन्नामद्वयम्, 'अच्छ: स्फटिक- भल्लूक निर्मलेष्वच्छमव्ययम्' (पृ. ३१, श्लो. १) । 'भल्लो भल्ली च बाणे स्याद् भल्लो भल्लूक* इष्यते' (पृ. १५१, श्लो. ३०) इत्युभयत्र विश्वप्रकाशिका | भल्लूकनामानि ॥ गण्डके खड्गखड्गिनौ। शेषे– 'वार्धीणसो वनोत्साहस्तत्र वार्धोणसोऽपि च' । खड्गमृगनामानि ।। लुलायो — सैरिभाः । शेषे– 'लोहिताक्षः कृष्णशृङ्गो वीरस्कन्धो रजस्वलः । जरन्तः कलुषः पोत्री जलात्मा गद्गदस्वरः । स्कन्धशृङ्गो यमरथः कटादो दंशलालिकौ' । 'हंसकालीसुतः शृङ्गी हेरम्ब: कृष्ण इत्यपि || ' महिषनामानि । शेषे– 'सृजयो गवलः कृष्णः' । कृष्णमहिषनामानि । ‘स परस्वान- रण्यजः ' । स महिषोऽरण्यजश्चेत् परस्वानित्युच्यते । 'कामाय परखान्' (तै. सं. ५. ५. ११. १) इत्यत्र परस्वानरण्यमहिष इति क्षुरे । परःशब्दोऽसुन्नन्तो मांसपर्यायः : अरण्य- महिषनाम ॥ ३-४ ॥ 1 करी B3. 2 मृग° Bs. 3 ' रिक्षकर्यर्थकक्षरि' इति मुद्रितग्रन्थे. इति मुद्रितग्रन्थे. 5 ‘ कटाहो दंशलालिकः' इति वैजयन्त्याम् (पृ. ६५, श्लो. १०). स्त्रियां शिवा भूरिमायुगोमायुमृगधूर्तकाः । सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥ ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक् । 9 6 4 भल्लुक हास: B3.
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/४००
दिखावट