पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• सिंहादिवर्गः ] दाक्षिणात्यव्याख्योपेतः . ३२५ (पा.) सिंहो - हरिः । 'हलीक्ष्णस्तृणसिंह: स्यात् कुटरुमृगसिंहकः' इति वैजयन्ती (पृ. ६५, श्लो. २) । अभेदादत्रोक्तम् । शेषे– 'कण्ठीरवो मृगरिपुः पारीन्द्रः श्वेतपिङ्गलः । महानादश्च शार्दूलो हरितोऽतुल्यविक्रमः। सुगन्धिः सिन्धुरद्वेषी व्यादीर्णवद्नो हरित् ॥' यादवप्रकाशेऽपि - 'कण्ठीरवो मृगरिपुः सुगन्धिर्हरितो हरित् । व्यादीर्णास्यो महानादः शार्दूलोऽतुल्यविक्रमः । हरिर्मृगेन्द्रो हर्यक्षः पारीन्द्रः श्वेतपिङ्गलः ॥' सिंहनामानि। ‘सिंहमु' । हलीव हलवानिव कुटिलनखतया ईक्ष्यत इति हलीक्ष्णः । तृणमपि हिनस्तीति तृणसिंह: । मृगान् हिनस्ति मृगसिंहकः । शार्दूलद्वीपिनौ व्याघ्रे । शेषे - ' तत्र व्यालो गुहाशयः । पुण्डरीकस्तीक्ष्णदंष्ट्रस्तरस्वी घोरदर्शनः । मृगात्पञ्चनखो हुण्डो हिंसारुञ्चण्डकञ्च सः ॥ ' व्याघ्रनामानि । ‘पुलि’। शेषे– ‘ खर्वेऽस्मिन् मेहनो मेही भेलश्चुलुकचित्रकौ । द्वीपी पित्वश्चित्रकायः ॥ ' यादवप्रकाशेऽपि – 'स्वल्पकस्त्वयम् । मेलो मेही च चुलुको द्वीपी पित्वञ्च चित्रकः । चित्रकायश्च || ' इति । ‘ चिरुतपुलि’ । तरक्षुः– मृगादनः । शेषे- ‘तरक्षञ्च मृगाजीवस्तिलित्सश्च मृगर्दिनः । मृगाद्देहिभेदे च तिलित्स: स्यात् ॥' इति गोपालः । कुर्कुरप्रायस्याल्पव्याघ्रस्य नामानि । ‘शिवंगि’ ॥ १ ॥