पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ अमरकोश: [द्वितीयकाण्डः इति वैजयन्ती (प्र. ६३, लो. १२३) | केतकीनामानि । 'मोगलि' । 'सा पीता मदनद्रोणी सुगन्धिः कनकच्छदा' | 'गेदंग' | 'परूषी चापि खर्जूरी निस्त्वचा दृढकण्टका' । खर्जूरीनामानि । 'चिट्टीन्दु' ॥ १६९ ॥ इति वनौषधिवर्गः 1 हरिम: B3. 2 जम्बुकौ B3. सिंहादिवर्गः सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । (कण्ठीरवो मृगरिपुमृगदृष्टिर्मृगाशनः । पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः ॥) शार्दूलद्वीपिनौ व्याघे तरक्षुस्तु मृगादनः ॥ १ ॥ 1 पिङ्गदृष्टि: Ptg. (वि.) अथ सिंहादिवर्ग आरभ्यते — सिंह इति । हस्त्यादिकं 2 हिनस्तीति सिंहः । ‘हिसि हिंसायाम्' । मृगाणामिन्द्रः श्रेष्ठः मृगेन्द्र: । पञ्चत इति पञ्चम् । 'पचि विस्तारे' । पञ्चं विस्तृतमास्यमस्येति' पञ्चास्य: । हरिणी कपिलवर्णेऽक्षिणी अस्येति हर्यक्ष: । के शिरसि सरन्तीति केसरा: सटाः, तेऽस्य सन्तीति केसरी । हरति गजादिकं हरिः। ‘हृञ् हरणे’। 'सिंहनामानि । 'सिंहमुपेल्लु' || शृणाति बलीवर्दादिकमिति शार्दूलः । 'शू हिंसायाम् ' । 'द्वीपमाश्रयो यस्य स द्वीपी । व्याजिघ्रतीति व्याघ्रः' । ‘घ्रा गन्धोपादाने’। व्याघ्रनामानि । 'पेद्दपुलिपेल्लु' ॥ तरं लवमत्यर्थं क्षिणोतीति तरक्षुः । 'क्षिणु हिंसायाम्' । मृगानत्तीति मृगादनः । 'अद भक्षणे' । तरक्षुनामनी । ‘सिवंगिपेल्लु' ॥ १ ॥ 3 भूषणं B3. 2 हन्तीति, 'हन हिंसागत्योः' J2. K5, Kg. D2, Kg add मुखं. Kg, W2. 7 Kg, Ptz add कण्ठे रखो यस्य कण्ठीरवः । यस्य । मृगाणामधिपः मृगाधिपः . 8 F2, Pt2 add निवासत्वेन. 4 पञ्च्यते W2. 5 3 मृगेषु बलवान् Da, 6 कपिलाक्षत्वात् D2, मृगाणां रिपुः । पिङ्गे दृष्टी 9K6, Pt2 add पञ्चा विस्तृता नखा नखरा यस्य पञ्चनखः, चित्रः कायो यस्य चित्रकाय:, पुण्डं मांसं रीकति हरतीति पुण्डरीकः, मृगाणां द्विट् मृगद्विट्