पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ नारिकेरनामानि । ‘नारिकेरमु' । अमरकोशः ‘" नारिकेरे तु लाङ्गली । दाक्षिणात्यो नीरफलः सुतुङ्गः कूर्चकेसरः । सुराफलो नली च ' । [द्वितीयकाण्डः इति वैजयन्ती (पृ. ६३, लो. २२० - १) | शेषे– 'हस्वे त्वखण्डुकः' | ‘चेन्नंगि'। ‘रक्तेऽग्निकः स्वर्णः’। ‘ येरूनिकायलनारिकडमु' । ‘अस्य पट्टके परिक्रोणा' । 'नारिकडपु दोत्ति’ | ‘फलं त्वस्य चोचं च घटसंज्ञकम्' । 'नारिकडपुकाय' ।। १६८ ।। 1 ‘ नालिकेरः . . . अप्फलोडबालः सुत (तु ) ङ्गः कूर्चकेसर: । सदाफलो बली च' इति मुद्रितग्रन्थे (पृ. ६३). घोण्टा तु पूगः ऋमुको गुवाकः खपुरोऽस्य तु । फलमुद्वेगमेते च हिन्तालसहितास्त्रयः ॥ १६९ ॥ खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः | इति वनौषधिवर्ग: (वि.) घोण्टेति — घुणन्ति भ्रमन्त्यनया 'जना इति घोण्ट।। ‘गुण भ्रमणे' । 2 पुनाति मुखं फलेनेति पूगः । 'पूञ् पवने' । 'क्रामन्त्यस्मिन् फलार्थिन इति क्रमुकः। ‘क्रमु पाढविक्षेपे’। गुवति मलं निःसारयत्यनेनेति गुवाकः । 'गु पुरीषोत्सर्गे'। खानीन्द्रियाणि पृ॒णोतीति खपुरः । 'पृ प्रीतौ' | ‘‘ पोंकचेट्टु’ | उद्गतो ‘वेगोऽस्येति उद्वेगम् । उद्विजन्तेऽस्माद् दुर्बला इति वा उद्वेगम् । 'ओविजी भयचलनयोः' । 'पोंकपण्डु' || हिनोति वर्धते तलति प्रतिष्ठत इति हिन्तालः । ' हि गतौ वृद्धौ च' । ‘हितालमु’॥ हिन्तालसहिताः प्रागुक्तास्तृणराजा नालिकेरक्रमुकाख्यास्त्रयो वृक्षाः तृणद्रुमा इत्युच्यन्ते । खर्जति रक्तपित्तमिति खर्जूरः । 'खर्ज व्यथने' | ‘खर्जूरमुपेरु’ || कित्यते ज्ञायते गन्धेनेति केतकी॰ । ‘कित ज्ञाने' । ‘मोगलिचेट्टुपेरु' ॥ तलति प्रतिष्ठते ताली । ‘तल प्रतिष्ठायाम्’। ‘श्रीतालमुपेरु ॥ खर्जति रोगं खर्जूरी। 'खर्ज' व्यथने' । ‘चिट्ठींदुपेरु’॥’एते चत्वारो वृक्षा अपि तृणद्रुमा इत्युच्यन्ते ।। १६९ ॥ । इति श्रीलिङ्गयसूरिविरचिताय ।ममरकोशपदविवृतौ वनौषधिवर्गः