पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० अमरकोशः [द्वितीयकाण्ड: हिंसागत्योः’। छत्रानामानि । 'छत्राकार मैनतृणमुपेल्लु' | मालारूपाणि तृणान्यस्येति मालातृणकम् । भूरित्यव्ययम् । तस्यां तृणं भूस्तृणम् | मालातृणकनामनी । 'चिप्प- कसवुपेल्लु ' ॥ शस्यते पशुभिर्भक्षणेनेति शष्पम् । 'शसु हिंसायाम्' । 'शंसु स्तुतौ ' वा धातुः । बालं च तत् तृणं च बालतृणम् । शष्पनामनी । ‘तॆतकसवुपेल्लु ' ॥ घस्यते पशुभिरिति घासः। ‘ घस्ऌ अदने ' | यूयते मिश्रीक्रियते लावकैर्बन्धनकाल इति यवसम् । ‘यु मिश्रणे' । घासनामनी । ' वेंतपूरि' ॥ तृण्यते पशुभिरिति तृणम् । 'तृणु अदने' । पशुप्रासार्थमर्जतेऽर्जनम् । 'अर्ज 'अर्जने' । अर्जुनमिति वा पाठः । तृणनामनी । 'सामान्य मुगा कसवुपेल्लु' ॥ १६ ॥ 6 6 1 पलं मांसं हन्ति तैक्ष्ण्यादिति पलघ्नः । Kg, Kg. F2, Pt2. एव पालघ्न: Pt2. 3 भुवं संस्तृणातीति, 'स्तृञ् आच्छादने ' Pt 2. 5 अर्ज्यते I. 6' अर्ज षर्ज अर्जने' Kg. (पा.) छत्रा - पालन्नौ | छत्रेति भिन्नं पदं, स्त्रीलिङ्गं च । अतिच्छत्रपालन्नौ पुंलिङ्गेऽपि । तथा च रुद्रः- ‘आतपत्रं मतं छत्रं छत्रा मधुरिका मता । अतिच्छत्रोऽपि छत्रः स्याच्छत्रा धान्याकमुच्यते ॥' 2 मालारूपतृणत्वात् 4 मिश्रीयते Ks; यौतीति इति । छत्रातिच्छत्र इत्येकपदमिति केचित् । छत्रा द्रोणिका अतिच्छत्रपालन्नौ देवद्रोणि- केति केचित् । ‘ऋषणी द्रोणिका छत्रा चक्षुष्या द्रोणपुष्पिका' इति वैजयन्ती (पृ. ५५,लो. १२४) । देवद्रोणीति गोपालः | छत्राकारस्य तृणविशेषस्य नामानि | ‘गुड्ढिकामंचि’। मालातृणकभूस्तृणे । सकाररहितं भूतृणमिति केचित् । यस्य ग्रन्थिस्थानेषु परिमण्डलावयवा भवन्ति स भूतृणाख्यः शाकविशेष: । ‘तथा च भूस्तृणशिग्रुसर्षप—' इत्यादि शाकप्रकरणे विष्णुवचनं (विष्णुस्मृतिः ७९. १७) स्मृति- चन्द्रिकाकारः पपाठ । भूतृणनामनी । ' तुम्मिकूर ' । वैद्य के तु – (ध. नि. ८. ४२). 6 ‘‘भूस्तृणं रोहिणं भूतिर्भूम्यूतिश्च कुटुम्बकः । मालातृणं च पालघ्नः छत्रातिच्छत्रकस्तथा ॥ इति छत्रादिभूस्तृण।न्तानां पर्यायत्वमाह। 'चिप्पकसवु' । शष्पं बालतृणम् । अमरमालायां पुंस्यप्युक्तम् । नवतृणनामनी । 'वैतकसवु' । नीलदूर्वानामापि । 'नीलदूर्वा भवेच्छष्पं शाद्वलं हरिता तथा' इति माधवः । घासो- अर्जुनम् । तृणसामान्यनामानि । 'कसवु’। घासादिद्वयं पशुभक्ष्ये, तृणादिद्वयं तृणसामान्य इति वदन्ति । अन्ये शष्पादिचतुष्टयं बालतृणे, तृणादिद्वयं तृणमात्र इति वदन्ति ॥ १६७ ॥ 1 - भूतृणं, रोहिणः, भूतिकोऽथ, सुमालीति मुद्रितनिघण्टौ (पृ. ३६०).