पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ३१७ नर्तकः । विभीषणः शून्यमध्यो नलः ' । अन्तः सरन्ध्रस्य तृणविशेषस्य नामानि | ‘किक्किम ' । अथो काशं - पोटगलः । अपचयविवक्षायां स्त्रीलिङ्गो भवति काशीति । इक्षुगन्धा तु काण्डेक्षुकाशयोः' इति यादववचनात् । 'दर्भेऽश्ववालः काशिर्ना काशोऽस्त्री स्त्रीक्षुगन्धिका' इति वैजयन्तीवचनाञ्च (पु. ६३, लो. २२७) स्त्रीलि- ङ्गत्वमिक्षुगन्धाशब्दस्य । अश्ववालदर्भनामानि । 'रेल्लु' ॥ पुंभूमनि – - बल्बजाः । पुंलिङ्गो बहुवचनञ्चायं शब्दः । 'एकञ्च बल्बजो बन्धनेऽसमर्थ : ' इत्यर्थवत्सूत्रे (१. २.४५) महाभाष्यप्रयोगदर्शन।देकवचनान्तत्वमपि । मुञ्जकल्पस्य तृणविशेषस्य नाम । 'मोदयमु’। केचिल्लिङ्गवचनद्योतनार्थस्तुशब्द इति काशादिबल्बजान्तान् पर्यायाने वाहुः ॥ १६१-२॥ 1 गौरादित्वान्ङीष् इति टीकासर्वस्वे (पृ. २०५). 6 रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ।। स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यममृणालं जलाशयम् ।। १६४ ।। लामज्जकं लघुलयमवदाहेष्टकापथे । (वि.) रसाल इति –रस्यत इति रसाल: । 'रस आस्वादने ' । रसेनालत इति वा । ‘अल भूषणादौ ' । इष्यते सर्वैरिति इक्षुः । ‘इषु इच्छायाम्’। रसालनामनी। चेरुकुपेल्लु' ॥ तद्भेदानाह । पुण्ड्राख्यदेशे भव: पुण्ड्रः । काम्यत इति कान्तारकः । 6 6 'कमु कान्तौ ' । पुण्ड्रनामनी । 'बंगालपुचेरुकु' ॥ पूर्व: श्वेतरसालः, इतरमान्ध्राः बंगालमिति वदन्ति । इत्यादयः सन्ति ॥ 'वीरयति विक्रमति 'तीक्ष्णत्वेनेति वीरणम् । ‘वीरतरं च। ‘वीर॰ विक्रान्तौ ' । वीरणनामनी । ‘‘अवुरुकसवुपेल्लु' । उश्यते काम्यते उशीरम् । ‘वश कान्तौ ' । न विद्यते भयमनेनेत्यभयम् । नलत्ययतीति नलं पित्तादिकम् । तद् द्यतीति 'नलदम् । 'दो अवखण्डने ' । 'नल गन्धने' । सेव्यते पित्तादिशमनार्थमिति 10 सेव्यम् । 'षेवृ 11 सेवायाम् ' । मृणति हिनस्तीति मृणालं हिंस्रं, तन्न भवतीति 12 अमृणालम् । 'मृण हिंसायाम् ' । जले आशेत इति जलाशयम् । ‘शीङ् स्वप्ने' । “रक्तदोषं लाति नाशयतीति ला | ला मज्जासारोऽस्यास्तीति लामज्जकम् । 14 इक्षुरसवदगुरुत्वात् लघु । जठराग्नौ 15 लीयतेऽनेनेति लयम् । ‘लीङ् श्लेषणे'। अवलीयते 16 दाहोऽनेनेत्यवदाहम् । पथि इष्टकमबाधकस्थानमस्येतीष्टकापथम् 7। वारणमूलनामानि । ‘ तेल्लनिवट्टिवेरु॰ ' ।। १६६–४ ।। 1 पुणतीति पुण्ड्र:, 'पुण कर्मणि शुभे' F2, Ptg. तीक्ष्ण तृणत्वेन Da, J2, Kg. 4 वीरतृणं K5, K6. 2 वीरयते Kg, K.. 5 वीरतरुश्च D2, J2. 3 पशुषु 6 शूर