पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ अमरकोशः [द्वितीयकाण्ड: वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६१ ॥ ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः । नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ।। इक्षुगन्धा पोटगला पुंभूमनि तु बल्वजाः । (वि.) वेणव इति – ये वेणवोऽनिलोद्धता वायुना ताडिताः स्वनन्ति ते कीचका इत्युच्यन्ते । की चेति कायन्ति शब्दायन्त इति कीचका: । 'कैशब्दे’। ‘ बोंगुवेदुल्लपेरु’ | ग्रन्थ्यते सन्धिरूपेण बध्यत इति ग्रन्थिः । 'ग्रथि कौटिल्ये ' ' ग्रन्थ सन्दर्भे' इति वा धातुः । पर्वति स्थूलो भवतीति पर्व । 'पर्व पूरणे' । पिपर्तीति परुः । 'पू पालनपूरणयो' । 'सान्तोऽयं नपुंसकलिङ्गः । पर्वनामानि | 'वेदुरु 'गणुपुलपेल्लु' ॥ गूयत इति गुन्द्रः । ‘गूञ् शब्दे' | इन्द्र इति पाठे इन्दतीन्द्रः । 'इदि परमैश्वर्ये'। तेजयति पित्तादिरोगान्" तनूकरोतीति तेजनकः । ' तिज निशाने ' । शृणाति 'रोगं शरः । ' हिंसायाम्' । शरनामानि । ‘" काकिवेदुरुपेल्लु' || वायुवशात् नलति चलतीति नड: ' । 'नल गतौ' । सुषिरत्वात् ध्मायते पूर्यत इति धमनः । 'ध्मा' शब्दाग्नि संयोगयो: ' ' । पुटति 10 गलति चेति पोटगल: । 'पुट संश्लेषणे ' । नडनामानि । '1" किक्कसकसवुपेल्लु' ॥ काशत इति काशम् । 'काट दीप्तौ' । इक्षोरित्र गन्धोऽस्या इति इक्षुगन्धा | गले मूलस्थाने पुटतीति पोटगला | 'पुट संश्लेषणे' | काशनामानि । 'रेल्लुकसवुपेल्लु' || बल्वाख्ये विशेषस्थाने जायन्त इति बल्वजा : 12 । 'जनी प्रादुर्भावे'। अयं शब्दः पुंसि भूम्न्येव वर्तते । 18 मोदयवुकसवुपेल्लु' ।। १६१-२॥ 6 1 काण्डसंधिरूपेण D2, Kg. 2 ‘ पर्व मर्व पूरणे’ K5, Kg. 3 सकारान्त: J2, Ks 5 ° रोगं J2. 6 दाहकं D2, K5, Kg. 7 ' काकाबु' J2. 4 ' गंणिनबसरु' Ja. 8 नलति विध्यतीति, ‘नल बन्धने' Pt2. 9 ‘ ध्मा पूरणे' K5, Kg. पुटति संश्लिष्यत इति D2, K5, Kg. 11 ‘देवनालशृणमु’ K2. स्तम्बबाहुल्याद् भुवमिति बल्बजा: F2, Pt2; वबयोरभेदः, 'वृञ् वरणे' Pt2. 10 गले मूले 12 वलन्ते संवृण्वन्ति 13 ' मोदे' J2. (पा.) वेणवः - अनिलोद्धताः । ये वंशा अनिलोद्धताः सन्तः स्वनन्ति ते वेणवः कीचकाञ्च स्युः । 'बोंगुवेदुल्लु' । अनुक्तम् –' विषमो निःस्तुषौ रेणौ' | 'वोलुलेनि वेदुरु' ॥ ग्रन्थिः– पर्वपरुषी । सान्तद्विवचनम् । द्वे नपुंसके । ग्रन्थिनामानि । 'कणुपु ' ॥ गुन्द्रः – शरः । शेषे – ‘शरनामा भद्रमुञ्जो मुञ्जेक्ष्वतिखराः समाः ' । वंशकारतृण- विशेषस्य नामानि । ‘कारिवेदुरुन्नु काकिचरुकुन्नु कनुमुन्नु ' । अनुक्तम्–‘लतावंशश्च वेत्रञ्च भूधरश्च समार्थकाः ' | ‘पेमु' । नडस्तु – पोटगलः । शेषे – ' रन्ध्री च