३१४ अमरकोशः [द्वितीयकाण्ड: वास्तुकं शाकभेदाः स्युर्वा तु शतपर्विका । सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता ॥ १५८ ॥ गोलोमी शतवीर्या च गण्डाली शकुलाक्षकः । (वि.) वास्तुकमिति वसन्यत्र त्रिदोषन्नगुणा इति वास्तुकम्। 'वस निवासे'। ‘चक्रवर्तिकूर ' ' ॥ एते कलम्ब्यायाः पञ्च शाकभेदा इत्युच्यन्ते ।। दूर्व्यते पशुभिरिति दूर्वा । 'दुर्वी हिंसायाम्' । दुरं वाति गच्छतीति वा । 'वा गतिगन्धनयोः' । शतं पर्वाण्यस्यामिति शतपर्विका | महाप्रभावत्वात् सहस्रवीर्या । भृगोरियं भार्गवी छिन्नापि रोहतीति रुहा”। 'रुह वीजजन्मनि प्रादुर्भावे च' । दूरप्रसरणाद् अनन्त । दूर्वानामानि। ‘गरिकपेल्लु' | गोरिव लोमान्यस्या इति गोलोमी । शतं॰ वीर्याणि प्रसरणरूपाण्यस्या इति शतवीर्या । सितदूर्वानामनी । 'तेल्लगरिकपेल्लु’ ॥ गण्डैर्प्रन्थि- भिरल्यते भूष्यत इति गण्डाली । 'अल भूषणादौ'। 'मत्म्यनयनतुल्यग्रन्थियोगात् शकुलाक्षकः । शकुलाक्षकन मनी । 'तेल्लगरिक' यनि कोंद' ।। १५८ ।। 1 · चक्कोत' J2. 4 प्रसरत्वात् F2, Pt2. 7 मत्स्याक्षितुल्यग्रन्थित्वात् J2, Kg. 2 बहुग्रन्थित्वात् 1Dg, Ks, Kg. 5' करिके' J2. 8 • बिलियकर्क' J2. 3
- मूलैरेव रोहतीति Ks, Kg.
6 महाप्रभावत्वात् D2, K5, Kg. (पा.) वास्तुकं – स्युः । वास्तुकं, वास्तूकमपि । 'वास्तूकं चक्रवास्तुकम्' इति वाग्भटः । ‘चक्रवर्तमु’ || शाकाख्यं पत्रपुष्पादीत्यारभ्य (लो. १३६) वास्तुकान्ताः (श्लो. १५८) शाकभेदाः स्युरित्युपसंहारः || दुर्वा तु शतपर्विका । तुशब्देन तृण- प्रकरणारम्भो द्योत्यते । सहस्रवीर्या - अनन्ता । दूर्वानामानि । ‘गरिकि’ | अथ सा— शतवीर्या च । श्वेतदूर्वानामनी । ‘तेल्लगरिकि’ | गण्ड|ली शकुलाक्षकः । महादूर्वानामनी। ‘ अथ महादूर्वा परा पुनः । गण्डाली शकुलाक्षश्च' इति प्रतापः । ‘तींगेगरिकि’ ।। १५८॥ कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥ स्याद् भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा । (वि.) कुरुविन्द इति–फुरुदेशं विन्दत्याश्रयत्वेनेति कुरुविन्दः। ‘विद्ल लाभे’। ‘मेघनामान्यस्य सन्तीति मेघनामा । मुस्यति खण्डयति पित्तादिरोगानिति मुस्ता। ‘मुस खण्डने’। मुस्तकं च । मुस्तानामानि । 'निडुपुगल तुंगमुस्तलपेल्लु' ॥