पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] यादवस्त्वाह- दाक्षिणात्यव्याख्योपेतः प्रतीककर्कशौ चैव तथा राजिपटोलकः । राजराजामृतापाण्डुभूतेभ्यश्च फलः परः ॥ रवणश्चेति ।। ' 'पटोलिका हस्वफला कन्याकुव्जा यवीयसी । सा तिक्ता तिक्तफलिका वन्या तिक्तपटोलिका | ' २ इति । पटोलनामानि । 'पोट्ल' || पटोलायास्तु पर्यायैर्योजयेद्भिषगुत्तमः' इति धन्वन्तरिवचनात् (ध. नि. १. ५२) तिक्तपटोलनामान्यपि । 'चेंति पोट्लानुन्नु' ||१५३-४॥ 1 राजनामा B3. 2 कन्या B3. 3 पटोऽस्य च B3. कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ । १५५ ।। इक्ष्वाकुः कटुतुम्बी स्यात् तुम्ब्यलाबूरुभे समे । चित्रा गवाक्षी गोतुम्बा विशाला त्विन्द्रवारुणी ॥ १५६ ।। (वि.) कूष्माण्डक इति — कुत्सित ऊष्मा अण्डेषु बीजेषु यस्य कूष्माण्डकः। तृप्तिं करोतीति कर्क: । इयर्तीति अरुः । 'ऋ गतौ' । कर्कश्वासावरुश्च कर्कारुः । कूष्माण्डनामनी। ‘3गुम्मडिपेल्लु' || कटुरसेन जिह्वामूर्वतीति उर्वारु: । ॰ ॰उर्वी हिंसायाम्'। कर्कापेक्षया ह्रस्वत्वात् कर्कटी । उर्वारुनामनी । 'दोसचेट्टुपेल्लु’ ॥ इक्षुमप्यकयति कुटिलयति तिक्तत्वेनेति इक्ष्वाकुः 7 । ‘अक कुटिलायां गतौ ' । कटुत्वेन जनं तुम्बयति पीडयतीति कटुतुम्बी | 'तुवि अदर्शने अर्दने च' | कटुतुम्बीनामनी । चेंदुसोरपेल्लु' |॥ तुम्बयति पित्तं नाशयतीति तुम्बी । ' तुवि अर्दने' । न लम्बते जलेऽधो न गच्छति शुष्कद्शायामिति अलावूः । 'लवि शब्दे अवस्रंसने च' । अलावून मनी । 'मंचिसोरपेल्लु' || चित्ररूपफलत्वात् चित्रा । वृषभाक्षितुल्यपुष्पयोगात् गवाक्षी। गोभिर्भक्षणेन तुम्च्यते गोतुम्बा । ' तुवि अर्दने' । गवाक्षीनामानि । ‘पिन्नपा- परपेल्लु' || विशालफलयोगाद् विशाला 10 | इन्द्र 11 इव वृषभाक्षाभै: 1 2 फलैः स्वदेहं वृणोतीति इन्द्रवारुणी । 'वृञ् वरणे' | इन्द्रवारुणीनामनी पेद्दपापर ' ॥ १५५-६॥ ३११ 2 6 1 कु ईषत् ऊष्मा Ptg. कूश्माण्डक: Ks, Kg, Pt2. 3 ' कुंबल' J2. 4 उरु मूत्रमारयति निःसारयतीति Fg, Pto. 5. उर्वी तुर्वी धुर्वी हिंसायाम्' K5, Kg. 6 करोति वर्षमिति Pto. 7 क्षत्रियघनत्वात् Kg, Kg. 8 कटुस्तिक्ता तुम्बी Fa, Pto. 11 12 पुष्पैः Pt2. 9 ‘कैसोरे' J2, We. 13 ' दोड्ड दामेके' J2. 10 विशालफलत्वात् Ptg. इन्द्रवत् F2, Pt2.