पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० अमरकोशः जनी जतूका जननी जतुकृञ्चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि । कर्पूरोऽपि पलाशोऽथ कारवेल्लः कटिल्लकः ॥ १५४ ॥ सुषवी चाथ कुलकं पटोलस्तिक्तकः पटुः । (वि.) जनीति – जनयति शैत्यादिकं जनी । जननी च । 'जनी प्रादुर्भावे' | जतु लक्षातोगक्षयं करोतीति जतूका । 'जतुकृच्च । चक्रे शाकानां समूहे वर्तत' इति चक्रवर्तिनी । 'वृतु वर्तने' । शीतगुणत्वात् सम्यक् स्पृश्यते संस्पर्शा । ‘स्पृश संस्पर्शने’। संस्पर्शोऽस्या इति वा । चक्रवर्तिनीनामानि । ‘कीरिन्दचेट्टुपेल्लु’ ॥ शटति कफ|दिरोगान् नाशयतीति शटी । 'शट रुजा विशरणगत्यवसादनेषु' । गन्धयुक्तं मूलमस्या इति 'गन्धमूली । षड्ग्रन्थयोऽस्याः सन्तीति षड्ग्रन्थिका । कर्नू चूर्यते दहतीति कचूर: ' | ‘चूरी दाहे' । पृथुपलाशत्वात् पलाश : ' । व्रणस्थं पलं मांसमश्नुते वा । ‘अशू व्याप्तौ' । गन्धमूलीनामानि । 'गंट्लकचोरमुपेल्लु' | कारेण प्रयत्नेन यष्ट्या- दिकमवलम्ब्य वेल्लति चलतीति कारवेल्लः । 'वेल्ल' चलने' । कटत्यावृणोतीति' कटिल्लकः | ‘कटे वर्षावरणयोः' । सुष्टु सूयते फलानीति सुषवी । 'षूञ् प्राणिप्रसवे'। कारवेल्लनामानि। ‘ 10कांकरचेटु' ॥ कुत्सितं लक्यते आस्वाद्यत इति कुलकम्" । 'लक आस्वादने' । पटति सरतीति पटोलः । 'अट पट गतौ ' । तिक्तरसत्वात् तिक्तक:-12 । देहपटुत्वयोगात् पटुः । कटुरिति वा पाठे कटुरसत्वात् कटुः । पटोलनामानि | ‘ चेन्दुपोट्टलचेट्टु’’ ।। १५३-४ ॥ ॥ 6 1 जतु करोतीति जतुकृत् F2, Pt2. स्पर्शोऽस्या अस्तीति F2, Pt2. 2 D2, J2 add श्रेष्ठतया. 3 समीचीन: 4 ग्रन्थिमूली J2 5 कचतीति कच्चूरः । 'कच बन्धने' 6 मृदुपलाशत्वात् मृदुपलाश: D2, K5. 7 कारवेल्ली D2, K5, Kg. 11 कुलतीति K5, Kg. 8 ‘ वेल चलने' Kg• 9 B1, K3 add पञ्जरादिकं. कुलकं Pt 2. 12 तिक्तरसयोगात् F2, Pt. 10 ' हलुगु' J2. " [द्वितीयकाण्डः 13 ‘कैपटल’ J2. (पा.) जनी - संस्पर्शा । लाक्षाजनकलताविशेषनामानि । ‘कारिंद' । 9 अथ शटी । मूर्धन्योपधः । गन्धमूली–पलाशः । ग्रन्थिकचोरनामानि । ‘गंट्लकचोरमु' । कारवेल्लः– सुषवी च । कारवेल्लनामानि । ‘कांकर' । अनुक्तम् – 'सुकन्दरस्तु कर्कोट:' । तद्विशेषनामनी । ‘मट्टुकांकर' ॥ अथ कुलकः–पटुः । वैद्यके— ‘ पटोलस्तिक्तकस्तिक्तस्तिलकः कर्कशच्छदः । राजिमान् बीजगर्भश्च कुष्ठहा कासमर्दनः ॥