पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः ३०९ (पा.) विष्वक्सेनप्रिया – बदरेत्यपि । यद्रसयोगेन तक्रस्त्यानता तल्लता नामानि । ‘ पांचितींगे ’ ॥ मार्कवो– स्यात् । द्रव्यावल्याम्- ‘अङ्गारको भृङ्गराजो भृङ्गः स्यात् केशरञ्जनः । भृङ्गारकेशरागा च भृङ्गराजार्थवाचकाः ॥' इति । भृङ्गराजनामानि । 'गुंटकलगर' | काकमाची– वायसी । वैद्यके–‘काकार्थेभ्यः परा माची काकसाह्वा च वायसी' इति । अनेन ध्वासमाचीत्यादिरपि । काकी करटेत्यादिश्च । काकमाचीनामानि । 'कांचिचेट्टु । अदे नल्लबुडुसर' ।। १५१ ॥ 1 ' काकमाची ध्वासमाची काकाह्वा चैव वायसी' इति ध. नि. (४. २१). शतपुष्पा सितच्छन्त्रातिच्छन्त्रा मधुरा मिसिः । अवाक्पुष्पी कारवी च सारणी तु प्रसारिणी ॥ १५२ ॥ तस्यां कटंभरा राजबला भद्रवलेति च । (वि.) शतपुष्पेति - बहुपुष्पत्वात् शतपुष्पा । 2 सितच्छत्राभानि पुष्पाण्यस्या इति सितच्छत्रा । छत्रमतिक्रान्ता अतिच्छत्रा । अविरुद्धलक्षणया मधुरत्वात् मधुरा । मस्यति परिणमतीति 4 मिसिः । 'मसी परिणामे' । अवाञ्च्यधोमुखानि पुष्पाण्यस्या अवाक्पुष्पी । कारेण यत्नेन वीयते खाद्यते, कटुतिक्तत्वादिति कारवी । 'वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु' । मधुरानामानि | 'पेद्दसदापपेल्लु' | 'सार्यते नि:सार्यते पीडानयेति सारणी । प्रसारिणी च । 'सृ गतौ' । कटिं श्रोण्याद्यवयवं बिभर्ति पुष्णातीति’ कटंभरा। हुभृञ् धारणपोषणयोः' । बलप्रद वस्तुषु राजवन्मुख्य- त्वाद् राजवला | भद्रं बलमस्या अस्तीति भद्रबला । प्रसारिणीनामानि । “गोन्तेम- गोरुचेट्टुपेल्लु' ॥ १५२ ॥ 1° पुष्पयोगात् K5, Kg. 2 सितानि छत्राकाराणि Da, K3. 3 Fg, Pto add कटुतिक्तरसत्वेऽपि. 4 मसि: Kg. 5 करोतीति कारु: तस्येयं कारवी F2, Ptg. 86 भृञ् 7 D2, J2 add वातहरणेन. " सार्यन्ते वातसंकुचितान्यङ्गान्यनयेति F2, Ptg. भरणे' Ks, Kg, Ptg. 9 : हेसर्वणा' J2. (पा.) शतपुष्पा - कारवी च । शतपुष्पानामानि । 'सदाप' | सारणी - भद्रबलेति च । प्रसारिणीनामानि । 'गोंतेमगारु | दूसर' ।। १५२ ।।