पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्डः ३०८ व्यवहारे स्तुतौ च ' । ज्योतिरुष्णमस्या अस्तीति ज्योतिष्मती । दूरप्रसरात्॰ लता । ज्योतिष्मतीनामानि। ‘एक्कुडुदिंगेपेल्लु' || वर्षासु भवं वार्षिकम् । रोगेभ्यस्त्रायत इति त्रायमाणा। ‘त्रैङ् पालने ' । त्रायन्ती च | बलेन प्राणेन भद्रत्वात् बलभद्रिका' । त्रायमाणानामानि । 'कटुगानुगुपेल्लु ' ॥ १५० ॥ 3 B1, 2 कटति: B1; कटती J2. 1 रक्तत्वेन पारावताङ् ब्रिसदृशात् F2, Pt 2. K2, K3 add मधुकरित्वात् ; मेधाकरित्वात् I, J2. 4 अग्न्याभावयवत्वात् D2, K3, Kg. 5° प्रसरणात् Ks, Kg. 6 J2 adds लतति, 'लति व्याप्तौ '. 7 बलेन भद्रिका Fa, Pta. (पा.) पारावंताङ्घ्रिः – लता। शेषे– 6 ' ज्योतिषका साग्निभा सा च लवणोक्ता च दुर्मदा । स्यात्सुपर्णलता चैद्या त्रिपर्णी किंशुकापि च ॥' ज्योतिष्मतीनामानि । ‘मानेरुदीग' ॥ वार्षिक - बलभद्रिका । त्रायन्तीनामानि | ' कलक्रान्त ' ॥ १५० ।। 1 कटभिरिति पाठ: B3. विष्वक्सेनप्रिया घृष्टिर्वाराही बदरेति च । मार्कवो भृङ्गराजः स्यात् काकमाची तु तु वायसी ॥ १५१ ॥ (वि.) विष्वक्सेनप्रियेति – विष्वक्सेनस्य प्रिया विष्वक्सेनप्रिया । वराहै- ष्यत इति घृष्टि: । 'घृष संकर्षणे ' । वराहैराक्रान्ता वाराही । बदति स्थिरी भवतीति बदरा । 'बद स्थैर्ये' । वाराहीनामानि । 'पांचितींगेपेल्लु' ॥ मार्कः संपर्कः औषधेषु तं वातीति मार्कवः’। ‘वा गतिगन्धनयोः ' । 'भृङ्गवद् राजते भृङ्गराजः । 'राजू दीप्तौ' । भृङ्गराजनामनी। " गुंटगलगरपेल्लु' || काकान् मञ्चत इति काकमाची । 'मचि धारणोच्छ्रायपूजनेषु'। काकमूचीति पाठे काकवर्णेन मूयते संबध्यत इति काकमूची । ‘ मूङ् बन्धने’ । वायसवर्णरसत्वाद् वायसी । ‘कांचिचेट्टुपेल्लु’’ ॥ १५१ ॥ 1 विष्वक्सेनप्रियत्वात् F2, Pt. 2 गृष्टिरित पाठे प्रयोगबाहुल्याद् घकांरस्य गकारः 4 शोफादिरोगान् मार्जयति मार्कव: । D2, K5, Kg. 3 ' वराहाक्रान्तत्वात् Kg. C 'मृजूष् शुद्धौ' B1, J2, Kg; मार्जव: Kg. 5 Kg, Ke add वर्णात् .. 6 ‘गरुडा' J2. 7' कांचुरुकांगे' J2.