पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [द्वितीयकाण्ड: (पा.) प्रपुन्नाट: – उरणाक्षश्च । 'प्रपुन्नटः प्रपुन्नाडो' दद्रुपामनिघातकः' इति वैद्यके। प्रपुन्न।टनामानि। 'तंटेपुचेट्टु' | पलाण्डुस्तु_सुकन्दकः । पलण्डुश्च पलण्डश्च पलाण्डुनामनी । 'नीरुल्लि' ।। १४७ ।। 1 प्रपुन्नाट: Bs. ३०६ लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम् । लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥ (वि.) लतार्क इति – लताभिः शाखाभिरर्च्यत इति लतार्कः । अपवित्रत्वेन दुष्टो द्रुमो दुद्रुमः । हरितपलाण्डुनामनी । ‘पञ्चनिनीरुल्लिपेरु '॥ महच्च तदौषधं च महौषधम् । अश्यते भुज्यत इति लशुनम् । 'अश भोजने' | गृञ्ज्यते कुत्सितं शब्द्यत इति गृञ्जनः’। ‘गृजि शब्दे' । न 'रिष्यतीत्यरिष्ट । ' रिष हिंसायाम्' । महान् कन्दो यस्य सः महाकन्दः । षट्सु रसेषु एकेनाम्लरसेनोन: रसोनकः । लशुननामानि । 'वेल्लुल्लिपेल्लु' ॥ १४८ ॥ 1 लतार्कस्यार्काह्वयस्यावयवसदृशावयवत्वात् लतार्क: B1, D2, K5. कफादिकमिति, “लश भेदने' D2, I, K2, K5, 3 गृञ्जनं D2, Kg, Ks. नास्ति रिष्टं हिंसास्मादिति F2, Pt2. 5 अम्लरसेन कदूनत्वात् D2, Ki, Kg. (पा.) लतार्कदुमौ - हरिते । हरितपलाण्डुनामनी । ‘पञ्चनिनीरुल्लि' । महौषधं – रसोनकाः । लशुननामानि | 'वेल्लुल्लि' । वैद्यके तु' – 6 ' लशुनं दीर्घपत्रं च पिच्छागन्धो महौषधम् । पलण्डुश्च पलाण्डुश्च लतार्कश्च पताकिका || गृञ्जनो यवनेष्टश्च पलाण्डोर्दश जातयः || ' इत्युक्तम् ।। १४८ ॥ 1 इति सुश्रुतेनोक्तत्वात् - भानुजीदीक्षितः (पृ. २०३). 2 लशति 4 रिष्यते Kg; " पुनर्नवा तु शोधघ्नी वितुन्नं सुनिषण्णकम् | स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥ १४९ ।।